________________
आह्निकम् ]
प्रमेयप्रकरणम्
नित्यस्त्वात्माभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तदयं नित्य एव धर्मादिवदुक्तः स्यात्, निर्विकारत्वे तु सतासता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव । तदुक्तम्,
वर्षातपाभ्यां किं व्योम्नश्चर्मंण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्समः ॥ इति ।
२२३
तस्मादुत्सृज्यतामेष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम । तन्निवृत्त्या चात्मीयग्रहोऽपि विरस्यति अहमेव न किं ममेति । तदिदमहङ्कारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारमालम्ब्यताम् । तस्य स `मार्गः क्षणिकपदार्थनिश्चयः । क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति ।
ग्रन्थी ।
कर्मजनितः संस्कारः, सा पुनः कालान्तरे सहकारिसन्निधानाद् लब्धपरिपाकवती तत्रैव सन्ताने फलं समुत्पादयति, न सन्तानान्तरे । यथा कस्याञ्चित् कर्पाससन्ततौ बीजावस्था - यामाहिता रक्तता मध्ये विच्छिन्नापि कुतश्चिद्देशकालाद्यनुग्रहात् तत्कुसुमे आविर्भवति, नान्यत्र । एवं हेतुफलभावेन व्यवस्थितेषु क्षणेषु येन ज्ञानेनानुभूतं वस्तु तेनोत्तरज्ञाने शक्तिराहिता; तेनाप्यन्यत्र यावत् प्रणिधानादिवशात् प्रबोधे सति स्मृतिर्भवति तत्रैव, न सन्तानान्तरे । पूर्वानुभवजनितो हि संस्कारः संस्कारान्तरजननद्वारेण स्मृतिजनकं क्षणमुस्कारसहितं जनयति तत्रैव सन्ताने वाचोयुक्तिः ।
वर्षातपाभ्यां किं व्योम्नः । नैव ताभ्यां व्योम्नः किञ्चित् कर्तुं शक्यत इत्यर्थः । उत्सृज्यतामेष इति । यदुक्तम्—
I
सर्वासां दोषजातीनां जाति: सत्कायदर्शनात् । साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ।। आत्मात्मीय- ध्रुवोच्छेद-नास्ति - हीनोच्चदृष्टयः । अहेत्वमार्ग-तदृष्टिरेता हि पञ्च दृष्टयः ॥
इत्यादि । अहङ्कारममकारग्रन्थिप्रहाणेति । अहङ्कारममकाराविव दुर्मोचत्वाद्
5
01
15
20
25