________________
२२२
न्यायमञ्ज
[ सप्तमम् गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ।। निराश्रयेषु विज्ञानस्कन्धेषु क्षणभङ्गिषु ।
कथं स्मृत्यादि कार्यं वा परलोकोऽपि वा कथम् ।। 5 सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि
ज्ञानेन चैत्यवन्दनादि कर्म कृतं तस्य विनाशान्न तत्फलोपभोगः, यस्य च फलोपभोगस्तेन न तत्कर्म कृतमिति । नैष दोषः । कार्यकारणभावस्य नियामकत्वादनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः । एष एव च सन्तान
इत्युच्यते।तत्कृतश्चायमनुसन्धानादिकार्यनियमः । सन्तानानादित्वादविच्छेदाच्च 10 परलोकोऽपि न क्लिष्टकल्पनः । यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि
सन्तत्यन्तरे ज्ञानं दृश्यते, तथापि न तादृशकार्यकारणभावेन सन्तानव्यवहारः, . प्रतिसन्धानादिकार्यनिर्वाहो वा; किन्तूपादानरूपतद्विशेषणनिबन्धन एवैष निर्वहति नियमः । तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते ।
स्मृतिवत् परिहर्तव्यौ कृतमाशाकृतागमौ ।
तत्सन्तानोपसङ्क्रान्त्या कुसुमे बीजरागवत् ।। आह च,
यस्मिन्नेव च सन्तान आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ।
किञ्चिदाश्रितम् । क्षणिकत्वे सति आश्रयाश्रयिभावादिति भावः । यतोऽधिष्ठानकल्पना । 20 गुणस्य निरधिष्ठानस्यानुपलम्भादिति । निराश्रयेष्विति । विज्ञानान्येव कार्यकारणभावेन स्थितानि राशीक्रियमाणानि विज्ञानस्कन्ध इत्युच्यते ।
यद्यपि च सन्तत्यन्तरेति । तथाहि-समीहादिनाऽनुमोयमाना सन्तानान्तरबुद्धिरनुमेयज्ञानस्यालम्बनकारणतां प्रतिपद्यते; उपाध्यायज्ञानस्य च शिष्यज्ञानोत्पत्तौ
कारणत्वदर्शनात् । न तादृशकार्यकारणभावेनेति । अत्र सहकारित्वेनोपाध्यायादिज्ञानं 25 जनकं नोपादानत्वेनेति भावः ।
तत्सन्तानोपसङ्क्रान्त्येति । व्यवस्थितायां सन्तती विज्ञाने आहिता कर्मवासना