________________
२२१
आह्निकम् ]
प्रमेयप्रकरणम् ज्ञाते वनेचरमुखादतिदेशवाक्ये दृष्टे मृगे विपिनवर्तिनि गोसदृक्षे । तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेदमुपमानमितिप्रतिष्ठम् ।।
वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहस्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् । आकाङ्क्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं ज्ञात्रैकेन विनातिदुर्घटमतो नित्यात्मसिद्धिर्भुवम् ॥ मयेदं पूर्वेद्युविहितमिदमन्येधुरपरम् । विधातव्यञ्चेति श्रुतिकृषिवणिज्यादिषु जनाः ॥ यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी।
ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ।। इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुःखसमाश्रयत्वम् । तत्सङ्गिनं तदिह हेयतया व्यवस्येत् तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥ अनित्यज्ञानानतिरिक्तात्मवादिबौद्धमतम्
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा । ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते । ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते । प्रागदर्शितानुसन्धानस्मरणादिक्रियाक्षमम् ॥ ज्ञानं बौद्धगृहे तावत् कुतो नित्यं भविष्यति । अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥ क्षणिकञ्चेष्यते कार्य न क्वचित् किञ्चिदाश्रितम् । स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनानुमीयते ॥ ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ।।
तत्संज्ञितामिति फलम् । अयं स गवय इति या संज्ञितामितिः संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः सैव फलम्।
सर्वे संस्काराः । सर्वे ते सम्भूय हेतुभिः क्रियन्त इति संस्काराश्च ते । न क्वचित्
25