________________
२२० न्यायमञ्ज
[ सप्तमम् कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य । त्वकश्रोत्राद्यपि करणं तथैव का प्रयुज्यते । हिताहितप्राप्तिविमर्शयोग्या चेष्टा न दृष्टा नियता शरीरे । तच्चेतनाधिष्ठितताममुष्य गन्त्र्यारथादेरिव कल्पयामः ॥ प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् । सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित् ।। इदञ्च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं ग्रहस्येव गति प्रकल्पते निजाश्रमक्षेमपरायणो नरः ॥ युक्तञ्च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् । 10 स्यात् कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः ॥
ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात् करणादिलिङ्गे। कार्ये च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धेः ॥
प्रत्यक्षादिप्रमाणैर्यो व्यवहारः स चात्मना ।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पनम् । 15 यत्प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञात्रन्यच्चेत्तस्य न ह्यात्मलाभः । ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात् सिद्धयत्येवं ग्राहकस्यापि पुंसः ॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् ।
लिङ्गिप्रमितिरितीदं न बोद्धृभेदेऽनुमान स्यात् ॥ कर्तृप्रयोज्यता खलु दृष्टेति । चेष्टा न दृष्टा नियता, अपि तु कादाचित्की गन्त्र्याः रथादेश्व यथा । सहजनिजकर्मविकृतौ । सहजं यन्निजं कर्म तिर्यग्गतिलक्षणं तस्य विकृतिः ऊर्ध्वम् अधश्च गतिः। वृद्धिक्षतभग्नरोहणमिति । क्षतं मांसस्य भङ्गः, अस्योद्भेदो रोहणम् । वृद्धिश्च क्षतभग्नरोहणञ्च तत् । चेतो मनः। ज्ञानप्रयत्नादिमत इति । करणं धर्मि ज्ञानप्रयत्नादिमदधिष्ठितकरणत्वाद् वास्यादिवदित्यत्र वास्यादौ किमधिष्ठातृ विवक्षितम्,
शरीरमन्यद्वा ? शरीरस्याधिष्ठातृत्वे साध्यविकलत्वं साध्यविपरीतसाधनाद् विरुद्धश्च हेतुः; 25 तदन्यस्त्वसिद्ध एवेति । सामान्यमात्रस्य तवापि सिद्धः। प्रयत्नादिमन्मात्राधिष्ठितत्वं
भवताप्यभ्युपगतमेवेति । एवञ्च विशेषविरुद्धोद्भावने सकलानुमानोच्छेदप्रसङ्ग इत्यसकृदुक्तम् ।