________________
10
आह्निकम् ] प्रमेयप्रकरणम्
२१९ नावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया । इतश्च नेन्द्रियाणां चैतन्यं करणत्वाद् वास्यादिवत् । भौतिकानि चेन्द्रियाणि वर्णयिष्यामः । तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनोयः । अतश्चैवम् ‘इन्द्रियान्तरविकारात्'।
आने हि चक्षुषा दृष्टे रसनिष्यन्दसून्दरे । रसनस्य विकारः स्यान्नुर्दन्तोदकविप्लवः । बहूनामिन्द्रियाणाञ्च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥ अतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते । मनसश्चेतनत्ववादनिरसनम्
ननु मनस्तीच्छादेरधिष्ठानं भविष्यति, तद्धि नित्यमेकं सर्वविषयमभौतिकमिति न प्राक्तनदोषैः स्पृश्यते ? उच्यते । मनसोऽपि तदाश्रयस्वमनुपपन्नम्। कुतः ? 'ज्ञातुर्ज्ञानसाधनोपपत्तेः, संज्ञाभेदमात्रम्' मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादिविषयज्ञानायौगपद्यानुपपत्तेस्तद्ग्रहणे घ्राणाद्यधिष्ठानपटुना केनचिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रिया- 15 कारिणा च करणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनःसंज्ञेति ।
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः ।
न च स्मृतिसुखेच्छादौ शक्ताः स्युश्चक्षुरादयः ।। ज्ञानाश्रयत्वेन सिद्ध आत्मा
तेनेच्छासुखकृतिदुःखवेदनानामाधारो न खलु मनो न चेन्द्रियाणि । देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ।।
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयत्नसुखदुःखमतीनाम् । लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः ।
दिक्प्रदर्शनमिदं कृतमिति सूत्रकारेणेति शेषः । बहुरन्य इति कोऽसावित्याह 25