________________
२१८ न्यायमञ्ज
[ सप्तमम् दर्शनम् । ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्वन्नपानाधुपयोगपुष्टेषु पट्वी चेतना भवति तद्विपर्यये विपर्ययः । ब्राह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदादिना नातिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा उपलभ्यन्ते। चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते ।
नैतच्चारु । 'चेष्टेन्द्रियार्थाश्रयः शरीरम्' वक्ष्यते । तत्र तदनुग्रहादिन्द्रियानुग्रहे सति पटुकरणत्वाद् विषयग्रहणपाटवम् । न हि विषयग्रहणादन्यच्चैतन्यं नाम । एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः । व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायतनत्वेन कदाचित् केषाञ्चिद् भूतावयवानां समुपादानतः शुक्रशोणितादिवद् दध्यवयवान् विकृतानुपादास्यते । तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किञ्चिदेतत् । तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।
इन्द्रियचैतन्यवादस्तन्निरासश्च 15 नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शन
स्पर्शनाभ्यामेकार्थग्रहणात् । यमर्थमद्राक्षं चक्षुषा तमेवैतहि स्पर्शनेन स्पृशामि, यमस्प्राक्षं स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्दधीत । न चक्षुः स्पर्शाविषयत्वात्, न त्वगिन्द्रियं रूपाविषयत्वात् । तस्मादुभयविषयग्रहणसमर्थः कश्चिदनुसन्धातास्तीति स इन्द्रियव्यतिरिक्तो गम्यते ।
अमुनैव प्रसङ्गन रूपादिव्यतिरेकिणः । वक्तव्या गुणिनः सिद्धिरेतबुद्धिनिबन्धना । रूपादिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत् ।
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम् ॥
अतश्च न गुणाव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः, 25 भेदग्रहणस्य दर्शितत्वात् । वृत्तविकल्पादीनान्तु प्रतिसमाधानं सामान्यसमर्थ
चैतन्यगुरुलाघवेति । गुरुलाघवव्यवहारस्तीव्रमन्दताव्यवहारः ।