________________
आह्निकम् ]
२१७
क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसम्पर्कस्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात् । तस्मादविनष्टा एव घटादयः पच्यन्ते । सोऽयं तू घटादिन्यायः शरीरे नेष्यते ।
1
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् । चयापचययुक्तं शरीरमुपलभ्यते ।।
हि
प्रमेयप्रकरणम्
तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालादिप्रत्यभिज्ञावत् तत् प्रत्यभिज्ञेति स्थितम् ।
शरीराभेदसाधने युक्तयन्तर निराकरणम्
यदप्युच्यते, अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति, तदप्ययुक्तम्, भेदाभेदविकल्पानुपपत्तेः । यदि शरीरादव्यतिरिक्ता एव तदवस्थास्तदावस्थानामप्यन्योन्यं भेदो न स्यात् । अथ व्यतिरिक्ताः शरीरादवस्थास्तर्हि भेदेन तदुपग्रहो दर्शयितव्यः । न चासावस्ति । गोत्वादावनुवृत्ता बुद्धिरन्यथासिद्धा सती न केनचित् प्रतिहन्यते । इह पुनरवस्थान्तरैकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वाद् भ्रान्तेति । तस्माच्छरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्ययोगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम् । इतश्च न शरीरस्य ज्ञानादियोगः परिणामित्वात् क्षीरादिवद्, रूपादिमत्त्वात् तद्वदेव, अनेकसमूहस्वभावत्वात् त्रिदण्डादिवत्, सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत्; चैतन्यशून्यंशरीरंशरीरत्वान्मृतशरीरवत् । न शरीरधर्मश्चैतन्यमयावद्द्रव्यभावित्वात् । न च कण्ड्वादिभिर्व्यभिचारस्तदुपजनापाययोर्निमित्तान्तरजन्यत्वदर्शनादिह च तदभावात्, विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः । तद्विशेषगुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ।
भूतचैतन्यवादोत्थापनं तन्निरासश्च
यत्तु मदशक्तिवदित्युक्तं तत्र मदशक्तेर्दृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र
उपजनापाययोः काद्युपजनापाययोनिमित्तान्तरानुपयोगादिति ।
न्या० म० २८
5
10
15
20
25