Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 288
________________ आह्निकम् ] प्रमेयप्रकरणम् अपि च मूढ ! सावयवस्याश्रितस्य कार्यस्य च नूनमवयवविभागादाश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्कावसरः । तथा हि न रामाभिषेककलशमद्य यावदनुवर्तमानमीश्वरवेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य विनाशे हेतुः, तस्मात् सहेतुको विनाश इति न स्वत एव नश्वरो भावः । प्रत्यभिज्ञायां न क्षणिकत्वविरोधित्वमित्यस्य निरसनोपक्रमः ___ अपि च प्रत्यभिज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धनिर्भङगुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्वतो जाज्वलीतीति कस्तस्यां सत्यां क्षणभगिनो भावानभिदध्यात् ? यत् किञ्चन तस्य समभाषितं तत् सर्वमसमञ्जसम् । 10 यत् तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते । सामानाधिकरण्येन नैकविषयावद्योतनप्रवणैकप्रतीतिसंवेनदात केयं द्वित्वाशङ्का योऽयं समः यः समोऽयमित्येकत्वावमर्शिनी, स्वतस्तु या अनेकप्रतीतिरनुभूयते घटोऽयं पटोऽयमिति तत्र निरन्तरोत्पन्नघटज्ञानपटस्मरणवद्भिन्नविषयं बुद्धिद्वयमिति । यत्तु किमेकप्रतीतिजन्मनि कारणमिति, कार्यञ्चेदवगम्येत किं कारणपरीक्षया। कार्यञ्चेन्नावगम्येत किं कारणपरीक्षया ॥ न च कार्यमकारणं भवितुमर्हति कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र कारणेन । अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः करणं पृथक्कार्यतापि तयोर्दर्शनादेवाभ्युपगतम्, इदन्तु दृष्टत्वाद् दुरपलपम् । क्वचित्तु 20 केवलेन्द्रियव्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वम्, सहकार्यपेक्षणेन कार्यान्तरजननात् । स्वमते प्रत्यभिज्ञास्वरूपम् यत् तूक्तं कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिनः शतकृत्वो दत्तोत्तरा अपि यत् पुनरस्माननुयुञ्जते तेन बलवदुद्विग्नाः स्मः । उक्तमत्र 25 15

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384