________________
आह्निकम् ]
प्रमेयप्रकरणम् अपि च मूढ ! सावयवस्याश्रितस्य कार्यस्य च नूनमवयवविभागादाश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्कावसरः । तथा हि न रामाभिषेककलशमद्य यावदनुवर्तमानमीश्वरवेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य विनाशे हेतुः, तस्मात् सहेतुको विनाश इति न स्वत एव नश्वरो भावः । प्रत्यभिज्ञायां न क्षणिकत्वविरोधित्वमित्यस्य निरसनोपक्रमः
___ अपि च प्रत्यभिज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धनिर्भङगुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्वतो जाज्वलीतीति कस्तस्यां सत्यां क्षणभगिनो भावानभिदध्यात् ? यत् किञ्चन तस्य समभाषितं तत् सर्वमसमञ्जसम् ।
10 यत् तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते । सामानाधिकरण्येन नैकविषयावद्योतनप्रवणैकप्रतीतिसंवेनदात केयं द्वित्वाशङ्का योऽयं समः यः समोऽयमित्येकत्वावमर्शिनी, स्वतस्तु या अनेकप्रतीतिरनुभूयते घटोऽयं पटोऽयमिति तत्र निरन्तरोत्पन्नघटज्ञानपटस्मरणवद्भिन्नविषयं बुद्धिद्वयमिति । यत्तु किमेकप्रतीतिजन्मनि कारणमिति,
कार्यञ्चेदवगम्येत किं कारणपरीक्षया।
कार्यञ्चेन्नावगम्येत किं कारणपरीक्षया ॥ न च कार्यमकारणं भवितुमर्हति कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र कारणेन । अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः करणं पृथक्कार्यतापि तयोर्दर्शनादेवाभ्युपगतम्, इदन्तु दृष्टत्वाद् दुरपलपम् । क्वचित्तु 20 केवलेन्द्रियव्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वम्, सहकार्यपेक्षणेन कार्यान्तरजननात् । स्वमते प्रत्यभिज्ञास्वरूपम्
यत् तूक्तं कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिनः शतकृत्वो दत्तोत्तरा अपि यत् पुनरस्माननुयुञ्जते तेन बलवदुद्विग्नाः स्मः । उक्तमत्र 25
15