________________
5
10
15
20
25
२४६
न्यायमञ्जय
[ सप्तमम्
प्रमितयः प्रष्टव्या न तु वादिन इति । अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थं एतस्यामवभासते,
ननु पूर्वापरौ कालौ परस्परविरोधिनौ । नैकत्र विशतस्तेन तद्भेदाद् वस्तु भिद्यते ॥
नैतदेवम्, केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभेदात्, अवयवी अस्ति नास्तीति परीक्षणं वादान्तरगमनम् । अपवर्गाके च विस्तरेण अवयवी साधयिष्यत इत्यास्तामेतत् । कुण्डलादीनामविरोधादिति चेन्न, लाक्षणिकविरोधाभ्युपगमात् परस्परव्यवहारव्यवस्थितात्मानो हि सर्वे भावा इति वदद्भिर्भवद्भिरभ्युपेत एषां विरोधः ।
ननु केयूरादीनां विरोधेऽपि तदवस्थानादेकदेवदत्त सम्बन्धित्वमभ्युपपद्येतापि, भूतवर्तमानयोस्तु युगपदसन्निधानात् तद्विशिष्टता स्तम्भादेरुच्यते प्रतीयते च द्वौ कालौ न च सन्निहिताविति चित्रम् । किं भूतोऽपि काल इदानीमस्ति ? मैवम् । नासावस्तीत्युच्यते अपि त्वासीत्, अस्तीत्युच्यमानं वर्त्तमान एव न भूतः । हन्त तर्हि भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते ? भूतत्वेनैवेति ब्रूमः । भूतः कालो भूततया गृह्यते वर्तमानो वर्तमानतयैव, अर्थस्तूभयानुगत एक एव तथा ग्रहणात् ।
ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात् ? न धर्मिणस्तदवच्छिन्नस्य ज्ञानजनकस्य भावात् । भूतः कथमवच्छेदक इति चेत्, तथा प्रतिभासात्, प्रतीतिमवमृषतु भवान् स एवायमिति यः पूर्वमासीत् स इदानीमप्यस्तीति सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धावभासते ।
नन्वसता भूतकालेन विशेषितमर्थं कथमिन्द्रियजप्रतीतिरालम्बनीकुर्य्यात् ? उच्यते,
अन्त्य संख्येयसंवित्तिकाले प्रागवलोकिताः ।
यथा शतादिज्ञानानि जनयन्ति घटादयः ॥ अतीतकालसंसर्गो भवन्नेव विशेषणम् । स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते ॥