________________
आह्निकम् ] प्रमेयप्रकरणम्
२४७ संख्येयाः घटादयः सन्त्यतीतकालो नास्तीति चेत्, कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः ? शतं कपित्थानां भक्षितवान् वाहीक इति प्रतीतिदर्शनात् ? न च नवनवतावनुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति, यथा तत्रातिकान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभासोपारूढत्वात्, एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभि- 5 ज्ञामाधास्यतीति ।
विकल्पमात्रं शतप्रत्यय इति चेत्, भो महात्मन् ! किं वा न विकल्पमात्रम् ? किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः ।
यश्च सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः ।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ।। इत्यलं कथाक्षेपेण।
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजञ्चेति नः कौतुकमिदं कियत् कौतुकम् ? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः । नन्वस्ति स तु वर्तमानकाल एव । न केवलं वर्तमानकालयोगिनार्थेन तत् प्रत्ययजननात् तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते 15 स च तदवच्छिन्नोऽर्थ इदं ज्ञानमादधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानुविधानात् । . नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ? कस्यैष पर्यनुयोगः ? नेन्द्रियस्याचेतनत्वात् । पुरुषस्त्वविस्फारिताक्षो नेदृशी प्रतिपत्ति लभते विस्फारिताक्षस्तु लभत इति सोऽपि नानुयोज्यः ।।
नन्वतीतग्राहित्वाद् वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीतेऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात् प्रत्ययात् कल्प्यते न चासावस्ति प्रत्यभिज्ञायाम्, अनुमानन्तु तावकं प्रतिक्षिप्तम् ।
ननु कारणदोषादवकल्पते एवाप्रामाण्यम्, आयुष्मन् ! सोऽप्युच्यताम् । उक्त एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्य विरहः । वत्स ! सम्यगुक्तवानसि । नायमिन्द्रियस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामर्थ्यम्, न