Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 280
________________ आह्निकम् ] प्रमेयप्रकरणम् २३७ भावानां क्षणभङ्गित्वखण्डनम् अत्राभिधीयते नैव प्रमाणद्वयमप्यदः । भावानां क्षणभङ्गित्वमुपपादयितुं क्षमम् ।। अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादि व्यभिचारावधारणात् ॥ किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । सदसद्वयपदेशस्तु पुत्रादावौपचारिकः ।। एवञ्च बाधकाभावपर्येषणपरायणम् । न सत्त्वग्राहकं ज्ञा(मा)नं स्वतः प्रामाण्यमर्हति ।। सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः । उपलब्धिव्यवस्थात इत्येवं वर्णयिष्यते ॥ अर्थक्रियासमर्थस्य त्वदुक्तं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येवसोऽपि हि । क्रमेण युगपद्वापि न कार्यकरणे क्षमः । क्षणिकस्य क्रमः कीदृग्युगपत्करणेषु नः । एकवस्तुक्रमस्यापि रूपभेदः प्रसज्यते । कार्याण्येकेन रूपेण भिन्नानि जनयेत् कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ।। स्थिते च वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते । तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत् ।। ___ उपलब्ध्यव्यवस्थात इति । सदप्युपलभ्यते असदप्युपलभ्यत इति । न हेतुर्गन्धवत्त्ववत् । यथा गन्धवत्त्वं नित्यत्वेऽनित्यत्वे वा न हेतुः, तेन सहान्यत्रादृष्टेः, एवं सर्वस्य साध्यत्वात् सत्त्वस्य क्षणिकत्वेन सहान्यत्रादृष्टिः । एकवस्तुक्षणस्यापि एको यो वस्तुक्षणः । रूपभेदविरोधाच्चेति । न ह्येकमनेकरूपं भवति, अनेकरूपत्वे एकत्वविरोधाद् वस्तुनः 25 काल्पनिकत्वं प्रसज्यते, विरुद्धस्वभावयोगेऽप्येकत्वे विश्वस्यैकताप्रसङ्गात् । घटादीनामपरमार्थसत्त्वान्मा भूत पारमार्थिकं बाह्यं वस्तु, ज्ञानमेव परमार्थसत्, तत्र क्षणिकत्व 20

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384