________________
आह्निकम् ] प्रमेयप्रकरणम्
२३७ भावानां क्षणभङ्गित्वखण्डनम्
अत्राभिधीयते नैव प्रमाणद्वयमप्यदः । भावानां क्षणभङ्गित्वमुपपादयितुं क्षमम् ।। अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादि व्यभिचारावधारणात् ॥ किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । सदसद्वयपदेशस्तु पुत्रादावौपचारिकः ।। एवञ्च बाधकाभावपर्येषणपरायणम् । न सत्त्वग्राहकं ज्ञा(मा)नं स्वतः प्रामाण्यमर्हति ।। सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः । उपलब्धिव्यवस्थात इत्येवं वर्णयिष्यते ॥ अर्थक्रियासमर्थस्य त्वदुक्तं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येवसोऽपि हि । क्रमेण युगपद्वापि न कार्यकरणे क्षमः । क्षणिकस्य क्रमः कीदृग्युगपत्करणेषु नः । एकवस्तुक्रमस्यापि रूपभेदः प्रसज्यते । कार्याण्येकेन रूपेण भिन्नानि जनयेत् कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ।। स्थिते च वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते ।
तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत् ।। ___ उपलब्ध्यव्यवस्थात इति । सदप्युपलभ्यते असदप्युपलभ्यत इति । न हेतुर्गन्धवत्त्ववत् । यथा गन्धवत्त्वं नित्यत्वेऽनित्यत्वे वा न हेतुः, तेन सहान्यत्रादृष्टेः, एवं सर्वस्य साध्यत्वात् सत्त्वस्य क्षणिकत्वेन सहान्यत्रादृष्टिः । एकवस्तुक्षणस्यापि एको यो वस्तुक्षणः । रूपभेदविरोधाच्चेति । न ह्येकमनेकरूपं भवति, अनेकरूपत्वे एकत्वविरोधाद् वस्तुनः 25 काल्पनिकत्वं प्रसज्यते, विरुद्धस्वभावयोगेऽप्येकत्वे विश्वस्यैकताप्रसङ्गात् । घटादीनामपरमार्थसत्त्वान्मा भूत पारमार्थिकं बाह्यं वस्तु, ज्ञानमेव परमार्थसत्, तत्र क्षणिकत्व
20