Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 253
________________ २१० न्यायमञ्जऱ्यां [ सप्तमम् तदादातुमिच्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतौ चान्वयव्यतिरेकवानेव हेतुर्भवति । इच्छा धर्मिण्याश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वादिति वा हेतुर्वक्तव्यः । गुणत्वञ्चेच्छादीनामचाक्षुषप्रत्यक्ष5 त्वादिना रसादिवद्दर्शितमाचार्यैः । एवमन्वयव्यतिरेकवतामुना हेतुनाधिष्ठान मात्रेऽनुमिते तदधिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्यपेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमाच्छरीरादिविलक्षणाश्रया, शरीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च साधर्म्यदृष्टान्तो न सम्भवतीति वैधय॑दृष्टान्तः कार्यत्वे निविशेषणे य एव 10 साधर्म्यदृष्टान्तो घट: स एव वैधर्म्यदृष्टान्तः सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति यथा घटादाविति तु शक्यते वक्तुम्, तत्र कार्यमात्रयोगेऽपि सविशेषणानां कार्यत्वाभावाद् विलक्षणाश्रयाश्रितत्वं नास्ति भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् । ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः सन्दिग्धो भवति 15 किं तत्साध्याभावकृतैव तस्य तस्माद् व्यावृत्तिरुत निमित्तान्तरकृतेति, सन्दिग्ध गुणत्वञ्चेच्छादोनामिति । इच्छाधर्मो गुण इति साध्यम्, कार्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात्, रसवदिति । तत्कार्यसमानकर्तृत्वेति । सुखसाधनत्वज्ञानादिकार्येणैककर्तृकत्वावगमात् शरीरादिप्रतिषेधे सतीति । तेषां नानात्वात् पूर्वोपलम्भायेककर्तृक त्वविशिष्टकार्याश्रयत्वाभावात् । शरीरादिषु बाधकोपपत्ताविति। पूर्वानुभवादिसव्य20 पेक्षकार्यत्वमेवेच्छायाः शरीराद्याश्रयत्वे बाधकम्, सविशेषणकार्यत्वायोगादिति । शरीरा दिष्वित्यत्र आदिपदेन यान्युपात्तानि भूतानि तत्कार्यत्वे बाधकाभावात् 'शरीरादिषु बाधकोपपत्तौ कार्यत्वात्' इति सविशेषणस्य कार्यत्वाभावात् । सविशेषणानां कार्यत्वाभावाद् विलक्षणाश्रयाश्रितत्वं नास्तीत्यादिना एतदेव व्यक्तीकृतम् । तस्य तस्माद् व्यावृत्तिरिति । यदिदं शरीरादिषु बाधकोपपत्तिविशिष्टं कार्यत्वं 25 तत् किं घटादौ शरीरादिविलक्षणाश्रितत्वस्य साध्यस्याभावाद् नास्त्युत कारणान्तरत इति । अन्वये पुनः प्रदर्शित एवं वक्तुं न शक्यते। अन्यत्र साध्यान्विततयोपलम्भादिह तस्याभाव इति हि तदा वक्तुं शक्यत एव ।

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384