________________
जयलक्ष्मीटीकासमेता ।
(३५)
स्थापयेदित्याह । स्वस्वभोगेन संयुक्तानिति । द्वादशवार्षिकादिस्वराधः एकादशांशिकांतरोदयस्वरभोगात् वर्षमेकं मासमेकं दिनद्वयं लोकाब्धिनाडिका अष्टत्रिंशत्पलानीत्यादीन् स्वस्वभोगात् स्वस्वाधः स्थापयेदित्यर्थः ॥ ३ ॥ अनिर्णीत फलकथनाय नामजानां कालजानां स्वराणां यथोत्तरबलमाह । यथोत्तरवला योगा इति ॥ ४ ॥ अकारादि स्वराधःस्थामिति ॥ अ ४ इ ४ उ ४ ए ४ ओ ४ ॥ एवंयोगेन विंशतिः २० ॥ ५॥ योगाद्दादशवर्षे स्युरवस्थाः पिंडतोब्दके ॥ भस्वरादयने ज्ञेया राशिस्वरादृतुस्वरे ॥ ६ ॥ जीवान्मासस्वरेवस्था गृहात्पक्षस्वरे तथा ॥ वर्णाद्दिनस्वरे ज्ञेया मात्रास्वराद्धटीस्वरे ॥ ॥ ७ ॥ द्वादशाब्दादिकः कालो यात्राकारादिकस्वरे ॥ स्थितस्तत्र शुभो न स्यात्पंचावस्थाः शुभोपि च ॥ ८ ॥ स्वरौ वृद्धांतिमो दुष्टौ बालपूर्वदलं तथा ॥ शेषं सार्धद्वयं भव्यमिति ज्ञेयाः शुभाशुभाः ॥ ९ ॥ द्वादशवार्षिकाद्या ये स्वांतरोदय संस्थिताः ॥ ते शुभा एकतः स्थाप्या अशुभास्त्वन्यतः पृथक् ॥ १० ॥ शुभाशुभस्वरूपस्य राशियुग्मस्य मध्यतः ॥ एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम् ॥ ११ ॥
योगांतद्वादशे वर्षेति ॥ ६ ॥ जीवान्मासस्वरेति ॥ ७ ॥ द्वादशाब्दादिकः काल इति ॥ ८ ॥ स्वरौ वृद्धांतिमाविति ॥ ९ ॥ द्वादशेति ॥ १० ॥ शुभाशुभेति ॥ ११॥ विंशत्या ताडिते शेषे चतुःषष्ट्या विभाजिते ॥ लब्धा विंशो - पकास्तत्र शुभाशुभप्रकाशकाः ॥ १२ ॥
विंशत्येति । अथोदाहरणद्वारेण फलितार्थं यथाज्ञानं तत्कारणं दर्शयामि " लिखेन्नवोर्द्धगा रेखाश्चतस्त्रस्तिर्यगास्थिताः । नामजान् कालजांश्चाष्टौ तत्रोक्तविधिना लिखेत् । तत्र देवदत्तस्य दिनचर्या अत्र शुभाशुभराशिइये विचारः अथ शुभपक्षे योगस्वरादुकारात् द्वादशवार्षिकांतरोदय उकारो युवा तस्य संख्या ४ क्षत्रस्वरोऽकार अयनस्वर इकारः कुमारस्तस्य संख्या ४ राशिस्वर ओकारः तद्वशात् ऋतुस्वरः अकारः कुमारः तस्य संख्या ४ जीवस्वरः अकारस्तद्वशान्मासस्वरो युवा तस्य संख्या ४ तदंतर्दशा हि युवा ४ वर्णस्वर उकारः तद्वशाद्दिनस्वरः कुमारः तस्य संख्या ४अत्र स्वरोदयोपि युवा तस्य संख्या ४ मातृकास्वर एकारः तद्वशान्नाडीस्वरो युवा तस्य संख्या ४ अंतरोदयापेि युवा ४ एवं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com