Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(२६६)
नरपतिजयचर्यावत्रस्थं च करस्थं च सर्वायुधनिवारणम् ॥ २६ ॥ गिरिकर्णी शमी गुंजां श्वेतवर्णां समाहरेत्॥चन्दनेनान्विताः सर्वास्तिलकेन जयी रणे॥२७॥अधःपुष्पी शिखा चैव श्वेता च गिरिकर्णिका ॥ गोरोचनसमायुक्तं तिलकं शत्रुमोहनम् ॥ २८ ॥ कनकार्कवटो वह्निः षडिंदुः पंचमस्तथा ॥ करोति तिलकं यस्तु पश्येत्तं पंचधा रिपुः ॥२९॥ कृष्णसर्पकपालं तु चितामृत्तिकयान्वितम् ।। सितगुंजां वरेत्तत्र तस्या मूलं समाहरेत् ॥३०॥ कृततिलकं भटं दृष्ट्वा पश्येत्स्वं श्वावृतं रिपुः ॥ श्वगणैर्भक्ष्यमाणं तु पतितं च ततो भुवि ॥३१॥छाया यस्य जले याति संग्राह्यः काशमर्दकः ॥ अनेन तिलकेनारिः कूपं वापी प्रपश्यति ॥ ३२ ॥ इति स्वरोदये तिलकम् ॥
ब्रह्मदंडी च कौमारी ईश्वरी वैष्णवी तथा ॥ वाराही वज्रिणी चंडी महालक्ष्मीस्तथैव च ॥ ३३॥ एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः॥ हृदि गुल्फे करे बद्धाः सर्वशस्त्रनिवारिकाः ॥३४॥ इति यामले ढकाः॥
वंगसीसकशुक्लाभ्रमतारसमन्वितैः ॥ वज्रायसादिभिर्युक्तः क्रियते पारदो रसः ॥ ३५॥ वज्राणां द्रावणं वक्ष्ये पारदस्य च बंधनम् ॥ लघुद्रावं च लोहेषु संयोगार्थ परस्परम् ॥ ३६ ॥ अस्थिश्रृंखलमध्यस्थं कृत्वा वज्रं निरुन्धितम् ॥ जलभांडे विनिक्षिप्य स्वेदयेदिनसप्तकम् ॥ ३७॥ वंगिकारससंघृष्टं नष्टविष्टं तु पारदम् ॥ ठिकाकंदस्य मध्यस्थं बंधनार्थं ततः पटे ॥३८॥ रेतितं लोहचूर्णं तु टंकणेन तु भावितम् ॥ लघुद्रावि भवेदेवं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294