Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 290
________________ जयलक्ष्मीटीकासमेता। (२४१) कं वदेत् ॥ ३॥ करग्रह समापीते छत्रसिंहासनादिषु ॥ देशाश्वकुंजरादीनां कर्तव्यं ग्रहशांतिकम् ॥ ४॥ प्रहाः पुण्यं ग्रहाः पापं ग्रहा मृत्युपराजयौ । हानिर्मृत्युः सुखं दुःखं व्याधिरारोग्यमेव च ॥५॥ अथात इति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥ नेरा अरातिरोगैश्च तथा शस्त्रप्रहारकैः ॥शाकिनीभूतवेतालैः पीडते ग्रहपीडया ॥६॥घातपातादिदोषाश्च विकारा दिव्यसंभवाः॥राजमित्रप्रकोषाश्च जायते ग्रहपीडया ॥७॥ गंडांतमूलजातानां लग्नादौ रिष्टयोगकै ॥ दुष्टदेशादिपीडायां गोचरे गोचरे व्यधे ॥ ८॥ दुष्टे रिष्टे समायाते कर्तव्यं ग्रहशांतिकम् ॥ ग्रहपूजा तथा होमं स्नानद्रव्याणि कल्पयेत ॥९॥ रव्यारौ ताम्रजौ कुर्याजीवज्ञौ स्वर्णसत्रिभौ॥ रौप्यौ चंद्रसितौ कार्यों शेषा लोहमया ग्रहाः ॥१०॥ नरा इति । अरांतिः पीडा ॥ ६॥७॥ ८॥९॥ १० ॥ अथवा स्वस्ववर्णाभैः पिष्टद्रव्यैश्च कारयेत् ॥ यज्ञोपवीतवस्त्रैश्च स्वग्रहाः परियाजयेत् ॥ ११ ॥ नवमृत्सुरूपां वेदी कृत्वा हस्तप्रमाणिकाम् ॥ तत्र ख्यादयः स्थाप्याः स्वस्वकृत्या यथोक्तया ॥ १२ ॥ मंडलं भास्करं मध्ये शशिनं पूर्वदक्षिणे ॥ त्रिकोणं दक्षिण भौमे रुद्रे धनुराकृतिम् ॥ १३ ॥ पद्माकारं गुरुं सौम्ये चतुरस्त्रं भूगुं न्यसेत् ॥ पूर्वस्यां पश्चिमे सौरिं दंडवत्परिकल्पयेत् ॥ १४ ॥ वायव्ये खड्गवत्केतुं राहुं च मकराकृतिम् ॥ एवं विचार्य विलिखेत्यूजयेद्विधिना ततः॥ १५॥ स्ववर्णफलपुष्पाणि नैवेद्यं विविधानि च ॥ मवधा बलिमालाच वासांसि नवधा पुनः ॥ १६ ॥ अथवेति । स्वस्ववर्णाभैः रव्यादिग्रहवर्णामः ॥ ११ ॥ १२॥१३॥१४॥१५॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294