Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेताः। (२७५) विषपीडा न जायते ॥ हनमतः पताकयं गजाश्वोपरि संस्थिता ॥ २३॥ धारिता सा प्रयत्नेन रिपुसैन्यस्य सन्मुखी ॥ हनूमतः पताकेयं गजाश्वादीन् पराक्रमेत् ॥ २४ ॥ तस्या दर्शनमात्रेण. व्याकुलीभूतमानसाः ॥ नश्यति रिपवस्तस्य सिंहस्येव यथा मृगाः ॥ २५॥ इति स्वरोदये हनुमत्पताका ॥ अथ रक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिकाम् ॥ स्तंभिनीं शत्रुसन्यस्य भूभुजादिवशंकरीम् ॥१॥ रोचनाकुंकुमाभ्यां च भूर्जपत्रे सुशोभने ॥२॥ सुवर्णमयलेखिन्या यंत्रमष्टदलं, लिखेत् ॥ साध्यनाम च तन्मध्ये मूलमंत्रं दलाष्टके ॥ ३ ॥ मालामंत्रश्चं तहाटे त्रिधा ह्रींकारवेष्टितम् ॥ त्रिलोहवेष्टितं कृत्वा कटिबाहुशिरस्थितम् ॥४॥ धारयेद्यस्त्विमा रक्षां तस्य विघ्नं न जायते रणे राजकुले द्यूते व्यवहारे पराजये ॥५॥ शस्त्रं नाक्रमते तस्य वज्रदेहो महाबलः ॥ उपसर्गादिदोषेषु विष स्थावरजंगमे ॥६॥ न भयं विद्यते तस्य स्त्रीणां चैवातिवल्लभः। तस्य पीडां न कुर्वति ग्रहाश्चैव उपग्रहाः॥७॥ न तेषां दुष्कृतं किंचिन्न भय तस्य विद्यते॥जलजाग्निभयं नास्ति व्याघ्रतस्करजं भयम् ॥८॥ ज्वराः सर्वे प्रणश्यति व्याहिकाद्या विशेषतः॥इयं हनुमतो रक्षा सर्वोपद्रवनाशिनी ॥९॥ इति स्वरोदये हनुमद्रक्षाविधिः ॥ पिच्छाकारं पटं कृत्वा पताकावद्विधानतः ॥ चंद्रार्कग्रहणे प्राप्ते हनुमंतं लिखेत्ततः ॥ १ ॥ मातृकायां जपेत्तत्र यावन्मुक्तिः प्रजायते ॥ होमयेच्च दशांशेन तिलसर्षपकादिभिः ॥२॥ युद्धकाले च तत्पिच्छं गजाश्वोपरि संस्थितम् ॥ दर्शनं शत्रुसैन्यस्य भंगो भवति निश्चितम् ॥३॥इति स्वरोदये हनुमत्पिच्छकविधिः॥ मदनेन हनुं कृत्वा पूर्वलक्षणलक्षितम्॥ वर्तितं चैव लांगूलं कारयेत्साधकेश्वरः॥१॥परचक्रस्य ये मुख्या लांगूलस्थानुकारिणः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294