Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(२७८)
नरपतिजयचर्या॥८॥ भवंति निष्प्रभाः सर्वे यंत्रस्यास्य प्रभावतः॥ शूलं विष्टंभिकाजीर्णं लूताविस्फोटकादयः ॥९॥ अभिचारकृतो दोषो विषं स्थावरजंगमम् ॥ गर्भे च वेदना यस्या गूढगर्भस्तु यो भवेत् ॥ १० ॥ एवं रोगैस्तु दुःखार्ताः स्वस्थाः स्युः सर्वजंतवः ॥ वंध्यापि लभते पुत्रं मृतवत्सा च जीवसः॥ ११ ॥ दुर्भगा सुभगा चैव यंत्रस्यास्य प्रभावतः ॥ कृत्याः प्रशमनं यांति मारुतश्चेष्मपैत्तिकाः ॥ १२ ॥ जीणज्वराश्च विषमाः शीतदाहज्वरात्मकाः ॥ एवमप्यास्थितं यंत्रं करोति विपुलां श्रियम् ॥ १३ ॥ इति स्वरोदये कलिकुंडलयंत्रविधिः ॥ शांत्यर्थं निजनाथस्य जयाथ रणकांक्षिणाम् ॥ यंत्रं मृत्युंजयं नाम प्रवक्ष्यामि समासतः ॥ १॥ हंसमध्यगतं नाम मृत्युंजयपुटीकृतम्।रक्षरक्ष समायुक्तं बाह्यरेखात्रयावृतम् ॥२॥ चवर्गस्य तृतीयो यो बिंदुषट्स्वरभूषितः॥हायंतःसविसर्गश्च मंत्रोयं प्रणवादिकः॥३॥पद्ममष्टदलं बाह्ये जंभाया दिग्दले स्थिताः ॥ विदिक्षु प्रणवं न्यस्य पत्रं षोडशकं बहिः॥४॥स्वराःषोडश दातव्याःप्रत्येकं सर्वतो दिशिाद्वात्रिंशत्पत्रकं पद्मं तबाह्ये विनिवेशयेत्॥५॥ कादियुक्तौ हसौ वर्णी स्थापयेत्क्रमशस्ततः॥ चतुःषष्टिदलं बाह्ये भैरवाद्यांस्ततो लिखेत्॥६॥भैरवी भैरवा सिद्धिग्रहा नागा दिशाधिपाः ॥ पीठोपपीठसंयुक्तं क्षेत्रपालादिरष्टकम् ॥७॥ आनयेनित्रणं भूर्ज ग्रंथिहीनं सुशोभनम् ॥वर्णभेदेन संगृह्य ब्राह्मणादिक्रमेण च ॥८॥ ककारादित्रिद्रव्येण गोंकारस्य त्रयेण च ॥ षड्द्रव्ययंत्रमालिख्य साध्यनामसमन्वितम् ॥ ९॥ सवर्णमयलेखिन्या उत्तराभिमुखं निशि ॥ चंद्रवारे लिखेयंत्रं मृत्युंजयविधानकम्॥१०॥ अनेन मदनस्थेन कृत्वा लिंगं सुशाभनम् ॥ पंचामृतेन दिव्येन स्नापयेत्सप्तवासरान् ॥ ११ ॥ पश्चाच्च भक्तकं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294