Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(२७६)
नरपतिजयचर्यागंजाश्वरथयानानि बहिःस्थानि तु कारयेत् ॥२॥ पूर्वमंत्राक्षरैयं लांगलेन तुवेष्टयेत्। वेष्टयेत्प्रतिमा सर्वामापादतलमूर्धजाम्॥३॥ स्थापयेत्पूर्वविधिना परचक्रस्य सन्मुखम् ॥ दर्शनात्परचक्रस्य भंगमायाति तत्क्षणात्॥४॥अथवा होमयेत्तत्र लांगलीलवणं विषम्।राजिका तुषकेशास्थिन्यूषणं निंबमेव च॥५॥षटोणकुंडमध्ये तु निंबाक्षचित्रकोद्भवाः ॥ समिधो ज्वालवेत्तत्र नैर्ऋत्याभिमुखे स्थितः ॥६॥ होमयेद्धनुमंत्रेण सहकं दिने दिने ॥ दिनसतकमध्ये तु शत्रौ पीडा ततो भवेत् ॥७॥अंगदाहो महापीडा विस्फोटो गधलतिका ॥म्रियते नात्र संदेहः संग्रामं कुरुते यदि ॥८॥इति स्वरोदये हनुमन्मंत्रहोमविधिः॥ मालामंत्रं पठेद्यस्तु हनूमतो रणांगणे॥ तस्यांगं वज्रवद्युद्धे हनूतुल्यपराक्रमम् ॥१॥ ॐ ह्रींहांहेलैह्रौंहः इति मालामन्त्रः॥ पुनरन्यत्प्रवक्ष्यामि वेद्यं परमदुर्लभम् ॥मांडूकं नाम विख्यातं सर्वशास्त्रेषु गोपितम् ॥ १॥ आननिर्बणं शुद्धं भूर्जपत्रं सुशोभनम् ॥तस्मिस्तु खररक्तन वामकर्णोद्भवेन तु॥२॥ चितांगारविषैर्युक्तं कृष्णोन्मत्तरसेन च ॥ कुलिके विलिखेद्यत्रं नैर्ऋत्याभिमुखस्थितः ॥३॥ प्रेतवञ्चितयेत्साध्यं मुक्तकेशं विवस्त्रकम् ॥ युद्धायुधैः कृतं यंत्रं कृत्वा मध्येरिनामकम् ॥ ४॥ तन्नाम रेखया भिंद्यात्कोपाविष्ठस्तु साधकः ॥ पीडयित्वा तु यंत्रं तु शालूरस्य मुखे क्षिपेत् ॥ ५ ॥ कीलयेत्पुष्टलोहेन शल्यकांडमयेन वा ॥ आनयेदारनालं च सप्तगेहोद्भवं ततः॥६॥ तन्मध्ये दरं क्षिप्त्वा तद्भांडं मुद्रयेत्ततः।तापयेद्युद्धकालेपि चितांगारानलीपरि ॥७॥ गात्रस्तंभो मनःस्तंभो वायुपीडा तथोदरे ॥ म्रियतेरिने संदेहा यदि शकसमोरणे ॥८॥ इति स्वरोदये मंडूकयंत्रविषिः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294