Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता।
(२७१) त्ततः॥ १॥ ततः सिद्धो भवेन्मंत्रो यथेप्सितफलप्रदः ॥ यस्य प्रभावमात्रेण शत्रवो यांति संक्षयम् ॥२॥ इत्युष्टी ॥
यमराजस्य पयं तु प्रोच्यमानं मया शृणु॥ यमराजसदोमेययमेदोरुणयोदय ॥ यदयोनिरयक्षेययक्षेयंवनिरामय ॥ ३॥ इति यमश्लोकः॥
इमं यमश्लोकं द्वात्रिंशत्सहस्राणि जपेत्॥घृतमधुरक्तपुष्पैः सहस्रक होमयेत् ॥ ततः सिद्धो भवति ॥ मनसेप्सितानि कार्याणि करोति ॥ चितागारविषं रक्तं कृष्णोन्मत्तरसस्तथा ॥ एतैनरास्थिलेखिन्या यंत्रं प्रेतपटे लिखेत् ॥ ४ ॥ साध्यनाम च तन्मध्ये हूं च राजिकया कृताम् ॥ यमरूपमिदं साक्षान्महिषासनगं कुरु ॥५॥ कृष्णाष्टम्यां चतुर्दश्यां गंतव्यं पितृमंदिरे ॥ नग्नो मुक्तशिखो भूत्वा मद्यमांसैः प्रपूजयेत् ॥ ६ ॥ क्षिप्तोच्छिष्टशरावेषु कृष्णसूत्रेण वेष्टयेत्॥श्मशानभूमिमध्यस्थः सप्ताहान्मारयेद्रिपुम् ॥७॥ इति स्वरोदये मारणविधिः ॥
रोचनां कुंकुम चंद्रं कृष्णोन्मत्तरसान्वितम्।रोहितोद्भवलेखिन्या भूर्जपत्रे लिखेदिदम् ॥१॥ साध्यनाम च तद्गर्भ बाह्ये चैकाररंजिका ॥ वह्निमंडलगं कृत्वा रक्तसूत्रेण वेष्टयेत् ॥ २॥ सिक्थकेनावृतं कृत्वा सुराकुंभे विनिक्षिपेत् ॥ पूजयेद्रक्तपुष्पैश्च सप्ताहान्मोहयेध्रुवम् ॥ ३ ॥ इति स्वरोदये मोहनविधिः ॥
शिलातालहरिद्राश्च मेषमुत्रसमन्विताः ॥कोकिलाक्षस्य लेखिन्या नीलरक्तपटे लिखेत् ॥१॥ साध्यनाम च तन्मध्ये रंजिकाक्तं निवेशयेत्॥पर्वताकृतियंत्रं च शिलातलनिवेशितम् ॥२॥ पूज.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294