Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 278
________________ जयलक्ष्मीटीकासमेता। ( २६९) षड्डिशत्या चतुःषष्टया शतेनाष्टोत्तरेण वा ॥ मयूरोलूकपक्षाणां तन्मानं ग्रंथिपिच्छिका ॥ १॥ ग्रहणे मृतिपर्यंतं रक्तसूत्रेण वेष्टयेत् ॥ इष्टमंत्रं जपेत्सत्यं सिद्धं रणेऽरिनाशनम् ॥२॥ निसर्गमूलजातेन गच्छ गच्छ परं ध्रुवम्॥सर्वोच्चस्थानगो धीरःस्वसैन्यविजयावहः ॥ पैच्छिकस्य विधिश्चायं ब्रह्मयामलभाषितः ॥३॥ इति यामले पैच्छिकविधिः ॥ लांगली ब्रह्मदंडी च कृष्णोन्मत्तरसान्विता ॥ मर्दयित्वाविकं चर्म पश्चायंत्रं समालिखेत् ॥१॥ काकरक्तं तथा विष्ठा चितांगारहलाहलम् ॥ काकपिच्छस्य लेखिन्या लिखेयंत्रं यमार्गलम्॥२॥ मध्यबीजस्य मध्यस्थं शत्रनाम ससैन्यकम् ॥ बाह्ये तु वायुबीजेन वेष्टयेत्रिगुणं पुनः॥३॥ वायुमंडलगं कृत्वा वायुबीजेन रंजिकाम् ॥ द्वादशस्वरसंयुक्तं वेष्टयेत्सव्यमार्गतः ॥ ४ ॥ ताम्रकस्यास्य नादेन व्याकुलीभूतमानसाः ॥ बलं मुका महावीराः पलायंते महारणात् ॥ ५॥ इति ताम्रकविधिः ॥ हेमायनपुरौप्याणां समैभीगैस्ततः पुनः ॥ द्वादशनेन ताम्रेण कारयेजयकाहलम् ॥१॥ काहलीरससँल्लिप्तां वादयेत्तां रणांगणे ॥ कृत्वा नादं प्रविश्यंति बलिष्ठा अतिशत्रवः ॥२॥ इति यामले काहलविधिः ॥ ताम्रकस्य विधानं तु ढकायामपि कारयेत् ॥ तेथैव फलमप्युक्तं समरांगणभूमिषु ॥ १॥ इति यामले ढक्काविधिः ॥ तुंबिनी चित्रकं दंडी कृष्णोन्मत्तरसान्विता॥मार्जयेन्मौरजं चर्म सप्तवारान्पुटद्वयम् ॥ १॥ दंडी च चित्रका दंती लज्जालुरस १ द्वादशांशेन इति पा०। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294