Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
( २६४ )
नरपतिजयचर्या
कन्याकर्तितसूत्रेण अष्टोत्तरगुणेन च ॥ कर्तव्यो दोरकस्तेन स ग्रंथिः कटिमानतः॥मृत्युंजयेन मंत्रेण ग्रंथयोऽष्टोत्तरं शतम् ॥ कृत्वैवं मेखला जाता कटिबद्धारिनाशिनी ॥ "ॐ जूं सः” इति मेखलामंत्रः ॥ ब्रह्माणीकवचं कृत्वा यो योधः प्रविशेद्रणम् ॥ प्रभवंति न तस्यांगे प्रहाराः शत्रुनोदिताः ॥ इति कवचम् ॥ अनुलोमविलोमेन मंत्रं मृत्युंजयं न्यसेत् || रक्षांतं च षडंगेषु न्यासोऽयं शत्रुवाणः ॥ इति न्यासः ॥ रसना घटिका ग्रस्ता अंगुष्ठोनामिकातले || एतन्मुद्राप्रभावेण संग्रामे विजयी भवेत् ॥ इति मुद्रा ॥ अष्टोत्तरसहस्रं च अघोरं मंत्रमुत्तमम् ॥ जपयित्वा ततो घोरं मंत्रराजमनुत्तमम् ॥ पूर्वोक्तैरेव च द्रव्येर्भूर्जपत्रे सुशोभने || लिखेन्मृत्युंजयं मन्त्रं तन्मध्ये वीरनामकम् ॥ मृत्युञ्जयेन मंत्रेण ग्रथितं तच्च नामकम्॥रक्षां कृत्वा करे बद्धा संग्रामे विजयी भवेत् ॥ “ॐ जूं सः” इति रक्षा ॥
आरण्यफलकं मूलं पुष्यार्केण तु गृह्यते ॥ कन्याकर्तितसूत्रेण शतघ्नेन तु दोरकम्॥ ग्रंथयेन्मृत्युञ्जयेन प्रत्येकं च पृथक् पृथक् ॥ अष्टोत्तरशतेनैव जायते वीरकंकणम् ॥९॥ ॐ कुमारि अवतर २ हर बाणावासिनी त्रिपुरुषं सत्येन सर्वायुधं भंजय २ स्वाहा " इति मंत्रः ॥
अंकसंस्थेन तेनैव दुर्जयस्त्रिदशैरपि ॥ स्तंभयेत्सर्वशस्त्राणि सर्वशक्तिसमन्वितः ॥ १० ॥ इति वीरकंकणम् ॥
अथौषधयः ॥ ईश्वरी ब्रह्मदंडी च कुमारी वैष्णवी तथा ॥ वाराही वज्रिणी चंडी तथा रुद्रजटाभिधा ॥ ११ ॥ लांगली सहदेवी च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294