Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 271
________________ पर (२६२) नरपतिजयचर्याअभिषेकमंडलम् ॥ अभिषिक्तस्ततो वीरः संग्रामे विजयी भवेत् ॥ शस्त्रैन भिद्यते तस्य शरीरं शत्रुचोदितैः ॥८॥ एतन्मंडलमध्यस्थोऽभिषिक्तः पुरुषो यदा ॥ ततः प्रभृतियुद्धेषु शत्रु जयति सर्वदा ॥९॥ राज्यभ्रष्टो लभेद्रा ज्यं क्षीणायुम्रियते न च॥ मुक्त्वा पीडां ग्रहाः सर्वे शांतिं कुर्वति सर्वदा ॥ १० ॥ इति अभिषेकविधिः ॥ अभिषेकात्परं पूजा कर्तव्या पूर्वमंडले ॥मृत्युजयेन मंत्रेण पूर्वोक्तविधिना ततः ॥ ११ ॥ "ॐ जूं सः” ॥ पश्चात्समर्पयेन्मंत्रं रणदीक्षा भवेदियम् ॥ तया समन्वितो वीरस्त्रिदशैरपि दुर्जयः॥ ॥ १२॥ इति रणदीक्षा ॥ पूर्वोक्तमंडलस्यांतर्योधशस्त्राणि विन्यसेत् ॥ पूजयेद्विधिवत्तानि ततो जागरणक्रिया ॥१३॥ “ॐ खां खी खू बैं खौं खः रौद्रमूर्तये खगाय नमः" ॥ इति खड्गमंत्रः ॥ "ॐ क्रां क्रीं क्रू मैं क्रौं कः” ॐ भैरवरूपाय रक्षायुधाय फलकाय नमः ॥ इति फलकमंत्रः ॥ “ॐ ला लीं लूं लैं लौं लः इंद्रायुधाय धनुषे नमः ॥” इति धनुमंत्रः ॥ "ॐ श्रीं श्रीं धूं मैं श्रौं श्रः" ब्रह्मादिपंचदेवतामूर्तये पंचबाणाय नमः ॥इति पंचबाणमंत्रः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294