Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता। (२६३) "ॐ क्रां क्रीं क्रू मैं क्रौं क्रः शूलिनो मूर्तये भैरवायुधाय कुंताय नमः" ॥ इति कुंतमंत्रः॥ "ॐ अघोरेश्वरीचामुंडे महाचामुंडे छूां छी छं छै छौं छ: भगवतीमूर्तये कात्यायनीछुरिकायै नमः” इति छुरिकामंत्रः ॥ इति रणांगपूजाविधिः॥ छागौ मातुलभाग्नेयौ तद्रोमकृतडोरके ॥ मृत्युञ्जयेन मंत्रेण दातव्यं ग्रंथिसप्तकम् ॥१॥ एवं कृतविधानेन जायते रणकंकणम् ॥ दक्षहस्तप्रबद्धेन युद्धे च विजयी भवेत् ॥ २ ॥ इति यामले रणकंकणम् ॥ कपूरं कुंकुमं चैव गोरोचनसमन्वितम् ॥ कोकिलाक्षस्य लेखिन्या श्वेतवस्त्रेतिशोभने ॥३॥ ॐकारद्वयमध्यस्थं साध्यनाम पटे लिखेत् ॥ तद्गर्भस्थं हकारं च टकारपरिवष्टितम्॥४॥ पृथ्वीसंपुटमध्यस्थं वर्गाष्टकयुतं ततः ॥ प्रणवाद्यरिनामेह हुंफडतं दिगष्टके ॥५॥ मंत्रमेतं शतं जप्त्वा पर्ट तन्मनि बन्धयेत् ॥ भीलं नयति वीरत्वं समरे च जयप्रदम् ॥६॥ इति वीरपट्टविधिः ॥ पूर्वोक्तेन विधानेन रणपट्टमितो लिखेत् ॥ कृत्वा हनुमतो रूपं हृदि मंत्रममुं लिखेत्॥ ॐ ह्रां ह्रीं हूं हैं ह्रौं हःहनुमते नमः॥" मंत्रमध्ये लिखेनाम निजयोधस्य संभवम् ॥ मूर्ध्नि बद्धेन तेनैव हनुमत्तुल्यविक्रमः ॥७॥ इति स्वरोदये रणपट्टविधिः ॥ त्रिशूलं दक्षिणे हस्ते कपालं वामके तथा ॥ भीषणं भैरवं रूपं पूर्वद्रव्यैः समालिखेत्॥त्रिपुरामंत्रनामभ्यां ग्रंथनेन तु वेष्टयेत् ॥ मूर्ध्नि बद्धेन तेनैव त्रैलोक्यं जयति ध्रुवम्॥८॥ऐं क्लीं सौं त्रिपुरायै नमः॥ इति त्रिपुरीमंत्रः ॥ इति जयपद्दविधिः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294