Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ वाचकानां प्रतिभावः श्रीविजयशीलचन्द्रसूरिमहाभागाः, भवद्भिः प्रेषिता नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता । " दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ " अस्य वाक्यस्य अनुसरणं सत्यमेव प्रतिभाति नन्दनवनकल्पतरोः शाखायाः कृते । प्रियसन्मान्यसूरिमहाभागाः, Jain Education International डॉ. महेश्वरः द्विवेदी नन्दपुरम् । नन्दनवनकल्पतरोः सप्तदशोऽङ्कः प्राप्तः । तदर्थं बहुधन्यवादः । संस्कृतम् आदिकालादपि ज्ञानविज्ञानसंस्कारचरित्रशिक्षादीनां भाषा अस्ति । अद्यापि जगत् आशापूर्णदृष्ट्या संस्कृतदिशि पश्यति । वैज्ञानिकाः अपि संस्कृतग्रन्थेभ्यः इदानीमपि जगतः हिताय विनूतनाः अंशाः प्राप्तुं शक्याः इति अङ्गीकुर्वन्ति । सम्पादकीयः आशयः मह्यम् अरोचत् । मुनिकल्याणकीर्तिविजयस्य 'स्वाध्याय' विभागे प्रकाशितः मङ्गलवादः नितरां सन्तोषकरः । मुनिधर्मकीर्तिविजयस्य ‘बोधकथा' 'गृहस्वामिनीचयनम्' च अस्माकं कर्तव्यं स्मारयति । एतादृशीकथाः अस्मादृशानां शिक्षकाणां महदुपयोगिन्यः भवेयुः इति तर्कयामि । सर्वेऽपि विषयाः ज्ञानवर्धकाः सन्तः मह्यम् अत्यन्तम् अरोचन्त । प्रा. अलकेशः दवे अहमदाबाद 7 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102