Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ भारतीयजीवनमूल्यज्ञानाय प्रचारायच संस्कृतस्य साम्प्रतिकी आवश्यकता 张张张张张张 TION ___ डॉ. धर्मेन्द्रजैनः संस्कृतवाङ्मये भारतीयसंस्कृतेस्सर्वस्वं निहितम् । संस्कृतेरनेकपक्षा भवन्ति किन्त्वत्र सदाचारनैतिकताहिंसादिजीवनमूल्यानां मीमांसा क्रियते । संस्कृतसाहित्ये निहितजीवनमूल्यानामेव महत्त्वेन जगति भारतस्य प्रतिष्ठाऽद्याऽपि तादृश्येव यादृशी प्राचीनसमये आसीत् । देववाणीग्रन्थेषूपलब्धवैशिष्ट्येनैव भारतेन गौरवं सम्प्राप्तम् । वेदादिप्राचीनतमसंस्कृतागमैरार्यावर्तोऽयं कृत्स्नविश्वस्मिन् प्रसिद्धि लब्धवान् । आदिसंस्कृतकाव्यस्योद्भूतिरपि करुणाहिंसादिभावनया जाता । मा निषाद प्रतिष्ठास्त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। (वाल्मीकिरामायणं-बालकाण्ड-२/१५) निषादेन हन्यमानं काममोहितक्रौञ्चमिथुनं दृष्ट्वा वाल्मीकिमहर्षेर्हदि करुणोद्गता । तद् दृश्यमालोक्य ऋषिः कथयति यद्-'भो निषाद ! क्रौञ्चपक्षियुगं १ त्वं नो जहि । चेन्मारयिष्यसि तर्हि युग-युगपर्यन्तं प्रतिष्ठां न लप्स्यसे' । इदं तूदाहरणमात्रं परन्तु वाल्मीकिरामायणस्य पठनानन्तरं ज्ञायते यदस्मिन् काव्ये पदे8 पदे जीवनमूल्यान्युपलभ्यन्ते । तेषु कतिचित् प्रसङ्गा निम्नाः सन्ति । कलिकाल उपकारस्मरणं न कुर्वन्ति मानवाः किन्तु कृतघ्ना भवन्ति । एतत्समये कृतज्ञताज्ञापनाय रामस्य कृतज्ञता प्रासङ्गिकी वर्तते । यथा वाल्मीकिमहर्षयो निगदन्ति रामविषये कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।। (वाल्मीकिरामायणं काण्ड-२, सर्ग-१, श्लोक-११) श्लोकेऽस्मिन् सुस्पष्टं भवति यत् रामः साक्षात् कृतज्ञताया मूर्तिविद्यते। केवलमेकेनैव कृतेनोपकारेण संतुष्यति । शतमप्यपकाराणां न स्मरति । इदानीं * सर्वत्र गृहे-गृहे कलहद्वेषादियुक्तं वातावरणं दृश्यते । चेद् वाल्मीकिरामायणस्य * ** भ्रातृप्रेमाऽवैरभावं चाऽनुस्रियते तर्हि स्वर्गतुल्यवातावरणं भवितुं शक्यते । * 涨涨紫米米浆涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨 涨涨涨涨 Jain Education International For Private & 88 nal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102