Book Title: Nandanvan Kalpataru 2007 00 SrNo 18 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ वाचकानांप्रतिभावः प्रा. डॉ. वासुदेव पाठकः 'वागर्थः' अहमदाबाद 'नन्दनवनकल्पतरुः' इत्यस्य १७तमः अङ्कः सम्प्राप्तः । उपकृतोऽहम् । वाचनवैविध्यं तु अस्त्येव, प्रास्ताविकं वस्तुतः विचार्यम् । अस्य लेखस्य हिन्दीभाषानुवादः, आङ्ग्लभाषानुवादश्च कार्यः । कारयित्वा, बहुधा प्रचारः कर्तव्यः, राष्ट्रस्य हितचिन्तां कृत्वा । भारतस्य औदार्यं धर्मस्वीकारविषये इति सत्यस्य अवगणनां कृत्वा, अन्यथा प्रचारं कुर्वाणा: लज्जां न अनुभवन्तीति आश्चर्यम् । अस्माकं तथाकथिताः नेतारः, स्वकीये स्वार्थे रममाणाः 'वोट'स्य राजकारणे रताः । राष्ट्रस्य संस्कृतेः, संस्काराणां वा रमणस्य वार्ताऽपि तैर्न विचार्यते । कतिपयैः सामयिकैः एतस्य विरोधः प्रकटीकृतः, किन्तुं तत् सर्वं अरण्ये रोदनं भवति । अन्धानां कृते दर्पणदर्शनमिदम् अस्तु । अस्माभिः प्रयतितव्यम् इति शास्त्राज्ञा शिरोधार्या ।। धन्यवादैः प्रणमामि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 102