Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ Jain Education International पूर्वं तु बन्धरहितोऽस्ति ततो दिदृक्षा तस्याश्च बन्धनमिति प्रवदन्ति केचित् । नैवं यतो न घटते खलु साऽप्यदृष्टे स्वाभाविकीति कथने न निवृत्तिरस्याः ॥ २५॥ तस्या निवृत्तिरपि चेत् स्थितिरात्मनोऽपि न स्याद्यतः सहजलक्षणनाश एषः । सांसिद्धिकी भवितुमर्हति सा दिदृक्षा भव्यत्वतुल्यकथनं च न नीतियुक्तम् ॥२६॥ भव्यत्वमस्ति नहि केवलजीवमात्रमेषा स्वभावघटिता बत जीवभूता । नो केवला यत इहाऽस्ति हि भाविकाले संयोग इत्यपि मतं न समञ्जसं स्यात् ॥२७॥ चेत् केवला प्रथमतो न ततस्तु शक्यः केनाऽपि योग इति नो विकृतिप्रसङ्गः । किं वाऽन्ययोगभवनोत्तरतोऽपि तस्याः सत्ता किलाssपतति साहजिकत्वतस्तु ॥२८॥ योगादनन्तरमियं च निवर्तते तत्स्वाभाव्यतः कथनमित्यपि न प्रमाणम् । नव्यः पदार्थ इति शास्त्रविरोधदोषो दोषः प्रमाणविरहः किल कल्पितायाम् ॥ २९॥ ११ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102