Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ हन्त झाँसीश्वरीदुर्गे प्रवेष्टुं गोपितां सृतिम् । कश्चिद् विश्वासघात्येव गौराङ्गेभ्यो न्यवेदयत् ॥६६॥ तेन झाँसीश्वरी नष्टा नष्टं राज्यञ्च सुस्थिरम् । वैदिकी संस्कृतिर्नष्टा कीर्तिश्चापि कलङ्किता ॥६७॥ विश्वासघातिनैवाऽसावाजादश्चन्द्रशेखरः । विश्राम्यन् कम्पनीबागे ग्राहितोऽङग्रेजरक्षिभिः ॥८॥ सेयं विश्वासघातानां दीर्घा काऽपि प्रम्परा । प्राक्तनैतिापर्णेषु लभ्यते लोमहर्षिणी ॥९॥ यो हि यस्मिन् विश्वसिति तदेकात्मा स जायते । एवं विश्वास एवैक उभयोस्तुल्यजीवनम् ॥७०॥ तमेव हन्ति विश्वासं यो विश्वस्तकृतं खलु । परमार्थतस्स तत्प्राणानुच्छित्ति नु निर्दयम् ॥१॥ एवं विश्वासहन्ताऽसौ नृशंसवधिको मतः । हत्वा विश्वस्तविश्वासं हन्ति यस्तस्य जीवितम् ॥७२॥ विश्वासघातिनो लुब्धा भवन्तीति निदर्शनैः । प्राक्त नैर्जायते सम्यक् लोभः पापस्य कारणम् ॥७३॥ द्रव्यं पदं प्रतिष्ठाञ्च राज्यं वाञ्छन्ति लोभिनः । अकृत्वाऽल्पमपि स्वीयं श्रम, कृत्वा च किल्बिषम् ॥७४॥ विश्वासघातपापेन सर्वमेतद्यदृच्छया । लभ्यमेकपदञ्चैव ततस्तत्सुकरं भवेत् ॥७५॥ भवन्त्येते प्रकृत्यैव कदर्या हतपौरुषाः । क्षेत्रपूरुषवन्मिथ्या विश्वासघना बृहन्नलाः ૭૬ો Jain Education International ३० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102