Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ तत्त्वार्थबोधविषये श्रयणीय एषोऽनेकान्त एच स तु भवेदिह चैवमेव । भव्यत्वनैकविधताश्रयणेन सिद्धोअनेकान्तवाद इति सुन्दरजैनदृष्टिः ॥२०॥ एकान्त आपतति चेतरथा तु नूनमेकान्ततश्च विघटेत् सकला व्यवस्था । एष त्वनार्हत इति त्यजनीय एव सिद्धिश्च संभवति संसरतो हि जन्तोः ॥२१॥ एकान्ततो न खलु सिध्यति बन्धनं हि मुक्तिश्व बन्धरहितस्य तु शब्दमात्रम् । जीवस्य बन्धनमिदं प्रवहत्यनादिकालादतीतसमयेन च तुल्यमेतत् ॥२२॥ बद्धो न पूर्वमथ तस्य च बन्धनं चेत् वैयर्थ्यमेव फलितं हि ततोऽस्य मुक्तेः । यस्मात् पुनश्च खलु संभवति प्रसङ्गो बन्धस्य चेति मतमेतदसाधु भाव्यम् ॥२३॥ बद्धरय बन्धवियुतस्य न तत्र भेदो बन्धे त्वनादिमति नाऽपि च मुक्त्यभावः । योगो नादिरपि नाशमुपैति नूनं न्यायोऽत्र काञ्चनमृदोर्विनियोजनीयः ॥२४॥ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102