Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ Jain Education International नवरत्नसमर्चाशतकम् समाजे नवरत्नानि विराजन्ते पदे पदे । प्रत्यभिज्ञानमेतेषां कार्यं कल्याणशंसिना तस्मान्मयाऽभिराजेन त्रिवेणीकविना मुदा । 'लोककल्याणकामेन काव्यमेतत्प्रणीयते ममाऽपि जीवनं दिष्ट्या नवरलैर्विमण्डितम् । आसीच्चिरं ततश्चैव विश्वस्तोsनुभवो मम अनुभूतस्तूपदेशो भवत्येव हितावहः । परीक्षितं हि भिषजा कुरोगघ्नमिवौषधम् श्रूयन्तां प्रथमं तावत्तन्नामानि सुहृद्वरैः । पश्चागुणानुवादोऽपि श्रोष्यते कविना कृतः आद्यं रत्नं कृतघ्नोऽसौ द्वितीयं निन्दको जनः । विश्वासघ्नस्तृतीयं तत्तुर्यं रलमसत्यवाक् प्रवञ्चकस्ततः षष्ठं रलं पाखण्डजीवनः । सप्तमञ्चाऽप्यसहिष्णुः स्वार्थान्धो रलमष्टमम् रत्नं विकत्थनो नूनं नवरलस्रगन्तिमम् । क्रमेणैव तदेतेषां सच्चरितं प्रकाश्यते. तत्राऽपि सर्वप्रथमं ब्रह्मणोऽपि महत्तरम् । नृजातिदीप्तमाणिक्यं कृतघ्नं प्रणमाम्यहम् शैवलोषरमेघौघधूमझञ्झानिलाऽनुजम् । वन्दे कृतघ्नसंज्ञं तं ब्रह्महत्याकुटुम्बिनम् प्रा. अभिराजराजेन्द्रमिश्रः २४ For Private & Personal Use Only n રા ક " કા દા mn ૫] usu ોનો www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102