Book Title: Nandanvan Kalpataru 2007 00 SrNo 18 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ वाचकानां प्रतिभावः MIRE NMENTA एच. वि. नागराजरा - मैसूरु - नमो वीतरागाय । नवनन्दनवनकल्पतरुं जनमानसनुतविज्ञगुरुम् । अभिवीक्ष्य निरन्तरमातनुते हृदयं मम नर्तनमद्य मुदा ॥ कीर्तित्रयी जयति लोकहितैषिणीयं वाग्भिः सदा विदधती बहुधर्मलाभम् । हासं कदाचन कदाचन बाष्पधारां सन्तन्वती जनमुखे ससुखेडसुखेडपि ॥ प्राकृतसंस्कृतवचनै रीतिं नीतिं च सकललोकस्य । यो बोधयति समस्तान् स जयतु नन्दनवनकल्पतरुः ॥ प्रा. अभिराजराजेन्द्रमिश्रः हरिद्वार नन्दनवनकल्पतरोः सप्तदशोऽङ्कः समवाप्तः । आचार्यचरणैविरचितां वर्धमानस्तुतिमधीत्य गादीभूतं मनो गौरवेण । हन्त, प्राकृतभाषाऽद्याऽपि जीवतितरां महता वैभवेन । वस्तुतो नन्दनवनकल्पतरुः संस्कृतभाषायाः सौष्ठवज्ञापने रुचिरमैतिचं किञ्चिद् विरचयति । सर्वोत्तमेयं संस्कृतपत्रिका प्रतिपाद्यगुणवत्ता-परिशुद्धिदृष्ट्या । अन्यथा तु प्रतिपदं त्रुटिनिचिताभिः पत्रिकाभिः काऽप्यन्यैव संस्कृतभाषा निर्मीयते । भवतां श्रमैः नन्दनवनकल्पतरुः स्वसंज्ञासार्थकतां साधु चरितार्थयतीति समाऽनुभवः । nak Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 102