Book Title: Nandanvan Kalpataru 2007 00 SrNo 18 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ परिष्कारं प्राप्नोति । शिक्षणमेव यदि भ्रष्टं स्यात् तर्हि ततो विचारशीलं विवेकशीलं वा यौवनं नैवोत्पत्स्यते ! भ्रष्टशिक्षणाज्जायते उन्मत्तं यौवनं, यच्च स्वपरोभयहितं नाशयति । अद्य यत्किमपि चित्तसङ्क्लेशजनकं व्यथोत्पादकं वा घटते तदेवोन्मत्तताया विवेकशून्यतायाश्च प्रमाणमस्ति । स्वातन्त्र्यं सर्वेषामभीष्टमेव, नाऽत्र संशयो नाऽपि विरोधः । किन्तु स्वातन्त्र्यं यदा विवेकमण्डितं भवति तदा तद् दीप्यतेऽनुसरणीयं चाऽपि सम्पद्यते । विवेकदानं तु शिक्षणस्य कार्यम् । ___पुनः समालोचनीया शिक्षणपद्धतिः । अत्यावश्यकमिदम् । नैतद्विना संस्कृतेः, संस्काराणां संस्कृतस्य चाऽपि संरक्षणं संवर्धनं च कथमपि शक्यम् । किन्तु क एतत् श्रोष्यति ? कस्य पुरः पूत्कुर्महे ?! कीर्तित्रयी फाल्गुनशुक्लपञ्चमी जामनगरम् .. . लेखकेषु वाचकेषु च सूचना १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य स्यात्। ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 102