Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ त्वत्पदाब्जसेविनां निरीक्ष्य दु:खभारनाशमप्यहो न चित्रमेतदेव भाति यत्तथापि सेवते भवन्तमाशु ॥७॥ (अथ स्तुत्यनामगर्भो बीजपूरः) जगज्जन्तुसमुद्धार ! जप्य ! पार्षद्यमुत्कर ! । जराश्वभ्र ! शुभाकार ! जयाह्लाद ! यशस्कर ! ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् ॥ तेनाऽऽकल्पमिहाऽऽश्रयन्तु सुधियः श्रीपार्श्वनाथं जिनम् सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ॥९॥ श्रीपार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा ॥ श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरम् कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥१०॥ इतिश्रीवसुमतीहारायमाणकीर्तिलतासम्वेष्टितापरचारित्रमूर्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं विविधनामगर्भच्छन्दोमयमुक्तकश्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥ ... ७. (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं लिख्यते ।) पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु । राभिधस्ततो भवेज्जसंज्ञको गणः पुनश्च राभिधोऽथ ॥ जाभिधो भवेद् गणः पुनः पुनर्गुरुस्ततो भवेल्लघुश्च एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र ॥ उठ्वणिका यथा 15 15 15 151 55 151 । חחח Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102