Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः ।
सुव्रतस्य जगद्भर्तु-स्तत्राऽवस्थितिशालिनः । अभवन्मेदिनीकम्पो, वाताऽऽन्दोलितकेतुवत् ॥ १ ॥ गिरयः कन्दुकायन्ते, आमूलश्लथबन्धनाः । मृत्स्ना पिण्डायते पृथ्वी, कम्पमानकुलाचला ॥ २ ॥ भीतभीता जनाः पौरा, अस्मरदेवतागुरून् । भीरवो भीरवो भर्तृ- कण्ठं स्वभुजयाऽरुधन् ॥ ३ ॥ जितशत्रुर्महीपाल - चकितोऽजनि मानसे । किमयं कल्पकालोऽभूदकाण्डेऽपि महीतटे ॥ ४ ॥ अथवा यत्र तीर्थेशः, साक्षाद्विहरति क्षितौ । तत्राऽशिवानि भूयांसि, प्रशाम्यन्ति विनिश्चितम् ॥ ५ ॥ अथवा कुपितः कोऽपि, महर्षिर्विदधेतराम् । अथवा जगतां नाथे, कः सन्देहोऽत्र तिष्ठति ? ॥ ६ ॥ ध्यात्वेति भूपतिः पौरैरन्वितो जगताम्पतिम् । आगात्समवसरणे, द्वितीये दिवसे सुधीः ॥ ७ ॥ प्रभुं प्रणम्य न्यगद - न्महीकम्पोऽद्य तीर्थप ! । कथङ्कारमभूद्भूया - द्विहृतेऽत्र जिनेश्वरे ॥ ८ ॥ अथ प्रोवाच भगवान्, सनीरजलदध्वनिः । शृणु क्षोणितटीकम्प कारणं काश्यपीपते । ।। ९ ।। तथाहि जम्बूद्वीपेऽस्य, प्राग्विदेहस्य भूषणम् । सुकच्छविजये ख्यातं, पुरा श्रीनगरं पुरम् ॥ १० ॥ प्रजापालनृपस्तत्र प्रजापालनलालसः । वैरिवारयशोराज - मरालजलदोदयः ॥ ११ ॥ कदाचिदेष सौधस्थो, वरीवृषति वारिदे । प्रज्वलत्पूलकाकारं, विद्युत्पातमवैक्षत ॥ १२ ॥
यादेषोऽपि यथाऽसौ पतितः क्षणात् । तथा कृतान्तदण्डोऽपि, निपतद्रक्ष्यते कथम् ? ॥ १३ ॥ पदातीनां पुरःस्थानां, नृपात्माऽपि स्वकर्मभिः । नीयमानो निर्विशेषं, रक्ष्यते न वृषं विना ॥ १४ ॥
For Private and Personal Use Only
नवमो भवः
भूकम्पकारणे
विष्णुकुमा
वृत्तान्तः
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330