Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्रीमु० २७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किमियं ललना काsपि दृष्टपूर्वेव वर्तते । आमोदयति मामेषा, स्वमेव प्रीतिवीचिभिः || ३२७ ॥ क्व सा स्वसा मम मत्ता, क्केदं कूलं भयङ्करम् । अथवा विधिवैवस्या - दुर्घटा घटना नहि ॥३२८॥ क्व सा कोपग्रहग्रस्ता, चिरं जीवति भूतले । यमभूपनिघातेसु, सत्सु कूपादिषु क्षितौ ।। ३२९ ॥ विधिरेव प्रगल्भोऽस्ति, वियोगघटनाकृते । सुघटं यो विघटये दघटं घटयेदपि ॥ ३३० ॥ किमेभिर्दुःखसाङ्गत्यै - विकल्पैः कल्पितैर्मम । इमामेव हि पृच्छामि, कङ्कणे दर्पणेन किम् ? ॥३३१॥ विचिन्त्येति जगादेनां, भद्रे ! का त्वं कुतः कृशा । कस्मादिदं विवर्ण्यन्ते, वपुस्तद् ब्रूहि मेऽखिलम् ॥३३२॥ ततो मन्युसरोत्पीडा, साश्रुपूर्णविलोचना । सङ्क्षेपात्कथयामास, चरित्रं सा सगद्द्रदम् ।। ३३३ ॥ श्रुत्वैप व्याजहारोच्चै - र्बाष्पपूर्णविलोचनः । उज्जयिन्यामिह प्राप्तो, जामे ! भ्रताऽस्म्यहं तव ||३३४|| हा जामे ! किमिदं जातं, यन्न स्वप्नेऽपि वीक्षितम् । अथाऽऽपदः सम्पदश्चाऽरघट्टभ्रमवल्गितः ॥ ३३५ ॥ ( यतः - ) समाहतं यस्य करैर्विसपिभि स्तमो दिगन्तेष्वपि नावतिष्ठते ।
स एव सूर्यस्तमसाऽभिभूयते, स्पृशन्ति कं कालवशेन नापदाः १ ॥ ३३६ ॥ विलाप्येवं मोचयित्वा, वणिजो बहुभिर्धनैः । आनयित्वान्तिके जामि महो ! कर्मविचित्रता ! ||३३७|| क्रमादवन्तीं सम्प्राप्ता, पितृभ्यां मिलिताऽसकौ । अवादीत्पूर्ववृत्तान्तं दुःखोगिरणपूर्वकम् ॥ ३३८ ॥ तदिदं कोपमाहात्म्यं विज्ञाय भवभीतया । एतया सुगुरूपान्ते, श्राद्धधर्मोऽथ सुश्रुवे ॥ ३३९ ॥ तदिदं कोपमाहात्म्यं, विज्ञाय व्याघ्र ! भावतः । कोपं त्यज भज क्षान्ति, क्षान्तिः सर्वार्थसाधिनी ॥ ३४० ॥
For Private and Personal Use Only
नवमो भवः
सुकोशल
कथानकम्
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330