Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि *अष्टमः सर्गः सुव्रतखामि-* चरितम् ॥१५७॥ नवमो भवः अथ खभाषया व्याघ्री, कोपत्यागं विधाय च । उवाचाऽऽराधनां नाथ!, ब्रूहि मे पापहारिणीम् ॥३४॥ अथ कीर्तिधरः साधु-स्तस्या भावविवृद्धये । उवाचैनं मृदु ध्यानं, मोहपङ्कदिवाकरः ।। ३४२ ॥ ऋषिपुत्रकभूहत्या, पापमत्या कृता त्वया । तां शुभभावतीर्थस्था, मोचयाऽचलमानसे! ॥ ३४३ ।। यत्वया लिगिनो जैनाः, पुरानिर्वासिता पुरा । तदालोचय दुष्कर्म, दुष्कर्महननोद्यते ! ॥३४४॥ क्रूरतीर्यक्त्वसम्प्राप्तेः, सम्प्राप्या नरका गतिः । यथा दारिद्यविस्फूर्तेः, सुलभं स्वावमाननम् ॥ ३४५॥ यत्वया निहता जीवा, नित्यं मांसजिघांसया। तत्पापं पिशितत्यागात् , समुत्सृजतरां त्रिधा ॥ ३४६ ॥ ततो मुनिगिराऽऽकार्षी-दाहारत्यागमञ्जसा । दिनानि त्रीणि यावत्सा, जिजीवाऽद्भुतभावना ॥३४७॥ केवलज्ञानिवदना-दाप्य पश्चनमस्कृतिम् । मृत्वा व्याघी सुरो जज्ञे, सौधर्मे प्रणिधानतः ॥ ३४८ ॥ केवली कीर्तिराजर्षिः, प्रतिबोध्य महीतलम् । महानन्दपदं प्राप, पुत्रसङ्गमवाञ्छया ॥ ३४९॥ श्रुत्वेदं विभुनोदीर्ण, जीर्णसंसारवासनम् । पुरन्दरयशादेवी, तीर्थनार्थ व्यजिज्ञपत् ॥ ३५० ।। भावि नाथ! कथावस्त्व-तीतकाले प्रकाशितम् । केवलज्ञानमाहात्म्य, सर्वकालेषु गोचरम् ॥३५१॥ स्वामिन् ! सुकोशलः साधुः, श्लाघ्यः-स्तुत्यो दिवाऽनिशम् । येनाऽऽत्मा साधितो वेगा- दुपसर्गेऽपि दुस्तरे ॥३५२।। एके एवम्विधा नाथ !, समुत्तीर्णभवाब्धयः । एकेऽस्मद्भातृसदृशा, लोकद्वयविरोधकाः ॥ ३५३ ॥ अचङ्कारितभहायाः, श्रावं श्रावं निदर्शनम् । कोपस्त्यक्तो मया नाथ !, कपाया अपरे पुनः ॥३५४॥ खामिन् ! प्रसादमाधाय, चारित्रं देहि मेधुना । येन संसारदुःखेभ्यो, मोक्षो मम भवेत्तराम् ॥३५५॥ सुकोशलकथानकम् ॥१५७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330