Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनि सुव्रतखामि - चरितम्
॥ १५२ ॥
www.kobatirth.org
१९७ ॥
विमृश्येति नृपो न्यस्य, राज्ये पुत्रं पुरन्दरम् । प्रव्रज्यामग्रहीत् पार्श्वे, तस्य ख्यातियशोमुनेः ॥१९२॥ अष्टमः सर्गः पुरन्दररसानेतुः पुत्रः कीर्तिधरोऽजनि । पृथिवीकुक्षिसम्भूतः ख्यातकीर्तिरिलातले ॥ १९३॥ कुशस्थलपुर स्वामि नन्दिनीं सहदेविकाम् । कीर्तिघर उपायंस्त वैदर्भीमिव नैषधिः ॥ १९४ ॥ राज्यं कीर्तिधरो राजा, यथानयमपालयत् । राहुग्रस्तं रवेर्बिम्ब - मन्येद्युवि निरक्षत ॥ यतेजसा वितैजस्कं, ग्रहचक्रं करोति यः स एव ग्रस्यते सूरो, हीनाङ्गेनाऽपि राहुणा ॥ अयं मे जीवमार्त्तण्डो, ग्रस्यमानः स्वकर्मणा । राहुणेव विना धर्म, रक्ष्यते नैष केनचित् ॥ तस्माच्छाश्वतिके सौख्ये, ग्रहोपग्रहवर्जिते । यतिष्य इति संध्याय- नुवाच निजमन्त्रिणम् ॥ १९८ ॥ प्यूचुर्नाथ मा वादी - रीटग्वर्णविभेदनम्। त्वां विना पृथिवीपीठ -मनाथमिव सन्मते । ॥ १९९ ॥ यदि ते भववैराग्यं, गृहस्थोऽपि दिवानिशम् । देहि दानं सुपात्रेभ्यो, धर्मदानपुरस्सरः ॥ २०० ॥ अनु त्वत्करराजीव-मर्थिभिः स्वकराः कृताः । कथं दर्शनवेषस्थो, भिक्षाहेतोर्गमिष्यसि १ ॥ २०१ ॥ निरपत्यः कथङ्कारं, त्यक्ष्यसि श्रियमात्मनः । जाते पुत्रे पुनर्धर्म कुर्याद्धर्मक्रियान्वितः ॥ २०२ ।। तद्वचो मन्त्रवद्राजा, प्रतिपद्याऽनवद्यधीः । आनन्दनादहं राज्यं कर्ताऽभिग्रहमभ्यधात् ॥ २०३ ॥ विषयान्सेवमानस्य, प्रजायै सहदेविभूः । अभूत्सुकोशलः पुत्रः, प्रत्याशातरुदोहदः ॥ २०४ ॥ नन्दने पक्षव्यतीते, न्यस्य राज्यं महामनाः । अभूत्कीर्तिधरः साधु चक्रे वरतरं तपः ॥ २०५ ॥ शीतं शिशिरकालेऽपि ग्रीष्मे ग्रीष्मं महाऽऽतपम् । वर्षासु वारिभृद्वृष्टिं गिरिवत्सहते स्म सः ॥२०६॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१९५ ॥ १९६ ॥
नवमो भक
कोश
कथानकम्
॥ १५२ ॥
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330