Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥१५१॥ दशाहान्तान्महीपाल - नन्दनो ववले पुरात् । सहोदयसुन्दरेण, पत्नीभ्रात्रा शुमे दिने ।। १६२ ।। इतो वसन्तो राजेव, कोकिलाबन्दिसूचितः। कन्दर्पमत्रिणा सार्क, जगजेतुमदीप्यत ॥ १६३ ॥ प्रतिवृक्षं विलोक्यन्ते, दोला लोलत्वशायिनः । पान्थसार्थाण्डजग्राहे, पाशा इव विनिर्मिताः ॥१६४॥ उपसर्पन्वज्रयाहु-मत्तकुञ्जरसङ्गतः । अद्राक्षीत्कञ्चनमुनि, वसन्तं गिरिमस्तके ।। १६५ ॥ उत्तीये कुञ्जरादेष, भवादिव महामतिः । मुनि प्रति चचालोचै,-रोमाञ्चकवचं वहन् ॥१६६ ॥ यथा यथा मुने रूप-मसरूपं विलोकते । तथा तथा भावलता, वर्द्धतेऽस्य मनःस्थले ॥ १६७।। धन्योऽयं यौवनभरे, यश्चकार महाव्रतम् । अहं तु विषयोद्धोध-पके मनोऽस्मि कोलवत् ।। १६८॥ मनुष्यकल्पवृक्षस्या-ऽनेन प्राप्तं महत्फलम् । मया तु मानुषं जन्म, विषयैः कलुषीकृतम् ।। १६९॥ एके विज्ञाततचार्था, जन्मना जन्म पावनम् । अर्जयन्तितरामन्ये, हारयन्ते मदान्धलाः ॥ १७०॥ एवं भावपरं वज्र-बाहुमालोक्य दूरतः । उपहासपरोऽवादी-नवपत्नीसहोदरः॥ १७१ ।। तवाऽपि मानसं मन्ये, श्रामण्यं प्रति सत्वरम् । कथङ्करं करोषि त्वं, विलम्ब स्वार्थभञ्जनम् ॥ १७२ ॥ त्वामनुप्रव्रजिष्यामि, त्वन्मार्गे प्रेषितो यतः। स एव शस्यते पत्ति-र्यः स्वामिहितकारकः॥ १७३ ॥ श्रुत्वेति शकुनग्रन्थि, बध्नाति (वि) जयनन्दनः। विवाहभूषणैर्भुनो, भक्तिमनोनमन्मुनिम् ॥१७॥ मुनिस्तद्भावमुद्दिश्य, धर्मलाभाऽऽशिष ददौ । पुमर्थेष्वपि सर्वेषु, धर्म एवाऽऽदिमो यतः॥१७५।। वज्रबाहुरुवाचेदं, कथं जीवो भवार्णवे? । परिभ्रमति सर्वत्र, भग्नपोतांशकाष्ठवत् ।। १७६ ।। नवमो भवः सुकोशल कथानकम् ॥१५१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330