Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो मवः
इतश्च बोधयन्नुवीं, सर्वोवशिनिषेवितः । शत्रुञ्जयमहातीर्थे, सुव्रतः समवासरत् ॥ १४९॥ पुरन्दरयशा देवी, तयाऽमोचि विभोः पुरः । वाम्यप्युचे मा विषीद, संस्कारस्थितिरीदृशी ॥१५०॥ (यत:-) वज्रकायशरीराणा-महतां यद्यनित्यता । कदलीसारतुल्येषु, का कथा शेषजन्तुषु ? ॥१५१॥ प्रभाते संस्कृतं सायं, नूनमन्त्रं विनश्यति । तदीयरससम्पुष्टे, काये का नाम नित्यता ॥ १५२ ॥ ऋत्वाऽऽख्यैश्चरणैरलङ्कृतवपुर्यः षभिरुज्जृम्भितो, यः पक्षौ प्रवितत्य सन्ततमहो गच्छन्न विश्राम्यति । यः सारं जगदम्बुजस्य च पिबन् प्राप्तो न तृप्ति क्वचित् ,
तस्मै कालमधुव्रताय विहितोऽस्माभिः प्रणामाञ्जलिः ॥ १५३॥ वीतरागाश्रितो लोकः, सादशोकः किमद्भुतम् । यथा सुरसपर्यायां, पादपोऽप्यभवत्तथा ॥ १५४ ॥ श्रुत्वेत्युवाच सा नाथं, खामिन् ! कोऽप्यस्ति भारते? । यो दुर्दशायामात्मानं, समुद्धरति तत्त्वतः ॥१५५॥ प्रत्युवाचाऽथ तीर्थेशः, सन्देहध्वान्तभास्करः । शृणु वत्से ! कथाऽऽख्यानं, सुकोशलमहामुनेः ॥१५६॥ तथाहि-मयि मोक्षपदं प्राप्ते, मम तीर्थे महीपतिः। साकेतनगरस्वामी, भविता विजयो जयी ॥१५७॥ पुष्पचूला प्रिया तस्य, पुष्पमालेव सद्गुणा । भविष्यतस्तयोः पुत्री, वज्रबाहु-पुरन्दरौ ॥ १५८॥ इतो नागपुरे राजा, दधिवाहनसज्ञकः। चूडामणी प्रिया तस्य, दुहिताऽस्ति मनोरमा ॥१५९॥ तामागत्य नृपादेशात् पुरे नागपुरे वरे । वज्रबाहुरुपायंस्त, प्रशस्तोदितलक्षणाम् ।। १६०॥ आबद्धकङ्कणभरौ, भवद्धवलमङ्गलौ । दम्पती तो ववन्दाते, गृहचैत्यानि भावतः ॥ १६१ ॥
सुकोशल कथानकम्
भीम
For Private and Personal Use Only
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330