Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
॥ १५४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतः कीर्तिधरस्याऽभूत्, केवलश्रीः समुज्वला । व्याघ्रीदर्शनभीतैर्वा कर्मभिस्तु पलायितम् ॥ २५२ ॥ आगतास्त्रिदशाश्चक्रुः, सौवर्ण तत्र विष्टरम् । तत्र कीर्तिधरस्तस्थौ, मराल इव पङ्कजे ॥ २५३ ॥ ततः कीर्तिधरं प्रेक्ष्य, व्याघ्री सदयमानसा । स्वगिरा प्रणिपत्योचे, निस्तारय भवाम्बुधेः ॥ २५४ ॥ ततः कीर्तिधरः प्राह, कोपः संसारकारणम् । कोपः कल्याणकन्दल्या, भेदने परशुः शितः ॥२५५॥ कोपचण्ड क्रियामल्लः, कोपः शल्यं शमश्रियः । कोपो ज्ञानलतावह्निः, कोपो निरयवर्त्मनीः ॥ २५६ ॥ विज्ञाताऽऽगमतत्त्वस्य जन्तोः प्रशमशालिनः । कोपमुक्तेर्भवेद्भद्र - मचंकारित भट्टिवत् ॥ २५७ ॥ ( तथाहि -) उज्जयिन्यामुज्जयिन्यां सौराज्यस्थितितः पुरि । धनप्रवरनामाऽभून्, माहाजनिकभूषणम् ॥ २५८ ॥ कमलश्रीः प्रिया तस्य, विस्मेरकमलानना । तयोः सुताऽष्टकं जातं, नवमी भट्टिकाङ्गजा ॥ २५९ ॥ अतिस्नेहलचित्तेन, श्रेष्ठिनोचे जनानभि । न च चङ्कारिता सेयं, केनाऽप्यागसि भूयसि ॥ २६० ॥ तदाद्यभिदधे लोकै- रचंकारित भट्टिका । सा प्राप यौवनं काम महेभस्य महावनम् ।। २६१ ।। अथ पौरा अयाचन्त, नैतामेष प्रदत्तवान् । अभाणीदिति यो नाज्ञा-मस्याः सन्धास्यतेऽन्यथा ॥ २६२ ॥ तस्याऽहमेनां दास्यामि, भविष्यामि कृतार्थकृत् । को नाम गौरवं दत्ते, खकीयस्था न वस्तुनः ॥२६३|| सवयोभिर्वयस्याभिः, खेलती साऽथ मन्दिरे । सुबुद्धिमत्रिणा दृष्टा, खेचरीव महीचरी ॥ २६४ ॥ चित्रं बाणैरनङ्गस्य, स विद्धो हृदयस्थले । कुतस्त्योऽस्मि कुतोऽप्यागा - मिति न स्म विवेद सः || २६५ ॥ स्वस्थीभूय स्वयं गत्वा, धनप्रवरमन्दिरम् । नत्वैनं रहसि स्माह, प्रीत्या विनयवामनः ॥ २६६ ॥
For Private and Personal Use Only
अष्टमः सर्गः
नवमो भवः सुकोशल
कथानकम्
॥ १५४ ॥
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330