Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७७ ॥ १७८ ॥
१८१ ॥
१८२ ॥ १८३ ॥
अथोवाच महासत्त्वः, कर्मभिः खयमर्जितैः । रूपैर्नवनवैर्जीवः परिभ्राम्यति संसृतौ ॥ केषाश्वित्कर्मणां जाते, क्षयोपशमतागुणे । लभते श्रावकं जन्म, दुर्लभं तत्र दर्शनम् ॥ तन्मूलो गृहिणां धर्मो, यतिधर्मोऽपि सन्मते ! । तस्मिन् ध्येयो जिनो देवो, महाव्रतधरो ज्ञेयानि नवतत्त्वानि, हेयानि कुमतानि च । ततः करतलालीनं, जायते निर्वृतेः पदम् ॥ विवेकी श्राद्धधर्मेण क्रमान्मोक्षमुपैति च । त्वरितं यतिधम्र्मेण यद्युक्तं तत्समाचर ॥ श्रुत्वेति मुनिनोदीर्ण, वैरङ्गिकमहामतिः । उज्झाञ्चकार नेपथ्यं, निर्मोकमिव पन्नगः ॥ इतो मनोरमादेवी वज्रपातसहोदरम् । तदाकृतं तदा ध्यात्वाऽऽगत्याऽरोदीदिति स्फुटम् ॥ प्राणनाथ ! कथङ्कारं प्रव्रज्यां कर्तुमुत्सहे । रक्तां भक्ताश्च मां त्यक्त्वा, नवोढां मूढधीरसि ॥ १८४ ॥ पत्नीभ्राताऽप्यथोवाच, हास्येनाऽभिहितं मया । त्वं तु गूढमना नेतः !, सत्यं कर्तुं समुद्यतः ॥ १८५ ॥ हास्येनाsपि त्वया वत्स ! यदुक्तं तत्तथा मम । रसज्ञात्वेकदा सूते, जननी तु सहस्रशः ॥ १८६॥ मनोरमाविलापान्स, मन्यमानः क्षणानिव । विच्छेद कबरीबन्धं पञ्चभिर्मुष्टिभिः क्षणात् ।। १८७ ।। पत्रिंशत्या कुमाराणां, पत्नीभ्रात्रा सहाऽपि सः । सामायिक महामन्त्र - म्रुच्चचार गुरोर्गिरा ॥ १८८ ॥ मनोरमाऽपि साध्वीत्वं, प्रपेदे पतिमार्गतः । कुलस्त्रियां समाचारः, पतिमार्गानुवर्त्तनम् ॥ १८९॥ कौमारवृत्तमाकर्ण्य, विजयो ध्यातवानिदम् । अहं वृद्धो भवं श्राद्धः, प्रबुद्धाचारवञ्चितः ॥। १९० ।। लघीयानपि पुत्रो मे, बृंहीयानिव भासते । दीप्तागारमिव त्वक्त्वा ऽभवत्प्रव्रजितोऽधुना ॥ १९९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
गुरुः ॥ १७९॥
१८० ॥
नवमो भवः
सुकोशल'
कथानकम्
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330