Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 293
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥१४१॥ नवमो भक श्रुत्वेति सुव्रतेनोक्तं, राजा पद्मोत्तरोऽवदत् । श्रुत्वा सुनन्दवृत्तान्तं, कम्पते मम मानसम् ॥३३॥ एकस्यापि हि मत्स्यस्य, भन्नायां हन्त पक्षतौ । अभूदुःखं सुनन्दस्य, जीवस्य परजन्मनि ॥ ३३२ ॥ अस्माभिनिर्दयखान्त-ररयो निहता हठात् । बाला वियोजिता मातु-रात्तं परधनश्च यत् ॥ ३३३ ॥ तदस्य सुव्रताचार्य, पापस्य परिमोक्षणम् । कथङ्कारं करिष्यामि, तन्मार्ग मे समादिश ॥ ३३४ ॥ अथोचे सुव्रतसूरि-मुनिसुव्रतदीक्षितः। निःशेषपाप्मनां हत्री, जिनदीक्षैव नाऽपरम् ॥ ३३५॥ अथोचे भूपतिः पद्मो-त्तरः सुविनयोत्तरः । संस्थाप्य नन्दनं राज्ये, दीक्षां लाताऽस्मि साम्प्रतम् ॥३३६॥ तावानेतरिह स्थेयं, हेयोपादेयवेदकः । अथोचे सुव्रताचार्यः, स्थितोऽहमिति निश्चितम् ।। ३३७ ।। तत्पादानमिवन्द्याऽसौ, प्राविक्षनगरं नृपः। आहूय सत्वरं विष्णु-कुमारमिदमूचिवान् ।। ३३८ ।। दुःखखानिरयं वत्स !, 'संसारः सारताहतः। तमहं मोक्तुमिच्छामि, भवति न्यस्य वभवम् ॥ ३३९ ॥ विष्णुरप्यवदत्तात !, दुःखखानौ भवान्कथम् ? | मां विनिक्षिप्य नित्याय, सौख्याय यतसे भृशम् ॥३४॥ अनु त्वां प्रवजिष्यामि, गमिष्यामि त्वदध्वना । इदं राज्यं मया त्यक्तं, नित्यतमिव दूरतः ॥ ३४१॥ ततोऽसौ पद्ममाहूय, सोपरोधमवोचत । उपादत्वाऽखिलं राज्यं, प्रव्रजामोऽधुना वयम् ॥ ३४२ ॥ अभ्यधाद्विनयात्पद्म, आर्य सत्यपि वः पदम् । कथङ्कारं मया ग्राह्य, राजनीतिपरो नयः ।। ३४३ ॥ विष्णो राज्यमलम्भूष्णो-युवराजा भवाम्यहम् । ततः पद्मोत्तरोऽवादी-निषेधं विष्णुनोदितम् ॥३४॥ पद्मोत्तरो महापद्मं, निजे राज्ये न्यवेशयत् । उत्तमानां कुलाचारो, यार्द्धके व्रतपालनम् ॥३४५।। भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१४१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330