Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥१४५॥ श्रुत्वेदं विभुना प्रोक्तं, प्रणम्य जगताम्पतिम् । जगाम धाम भूमीशो, नाथं पश्यन् पुरःस्थितम् ॥४४७॥ खाम्यप्यन्यत्र विहृतः, प्रातः साकं सुरासुरैः। उपकारपराणां हि, नैकत्रावस्थितिर्यतः॥४४८॥ तस्मिन्नेव महोद्याने, जिननाथपवित्रिते । जीवन्तखामिनो बिम्ब, प्रतिष्ठाप्य न्यवेशयत् ॥ ४४९ ॥ अश्वरूपं मनोहारि, कारयाञ्चकृवान्नुपः । सुवर्णरत्नपाषाणैः, प्रासादश्च विनिर्मितः॥ ४५०॥ "अश्वावबोध" इत्याख्यं, तत्तीर्थ प्रथितं भुवि । पशवोऽपि प्रसिद्धाः स्युः, स्वामिदेशनया तया ॥४५१॥ प्रत्यहं खामिनो बिम्ब, पूजयामास भूपतिः। नाट्यश्च कारयामास, प्रतिपर्व महोत्सवैः॥ ४५२ ॥ लेप्यास्तीर्थकृतामर्चाः, सर्वेषामप्यकारयत् । नगरे रथयात्रां च, महद्भूतप्रभावनाम् ॥ ४५३ ॥ अश्वावयोधतीर्थं विनयेन चिरेण पूजयित्वासौ । जितशत्रुमहीपालो, मेजे माहेन्द्रदेवत्वम् ॥४५४॥ तस्माच्युत्वा स विपुल-मतिर्नाम भृत्वा नरेन्द्रो, वप्राभिख्य विपुलविजये भूरिलक्ष्मीनिवासे । तीर्थाधीशक्रमविनयतः प्राप्य निग्रंथमुद्राम् , याता मोक्षं निरुपमततं शाश्वतं नित्यसौख्यम् ॥ ४५५ ॥ नवमो भवः | भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१४५॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके पद्मोत्तरक्षितीश्वर-विष्णुकुमारमहर्षि - महापद्मचक्रधर-सुनन्द-दामन्नक-कथानकगर्भितः श्रीअश्वा वबोधमहातीर्थोत्पत्तिव्यावर्णनो नाम सप्तमः सर्गः ॥७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330