Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः। भुवनोपचिकी खामी, भृगुकच्छपुरात्ततः । अन्यदा समवासार्षी - द्विहरन् हस्तिनापुरम् ॥१॥ तस्मिन्नेव पुरे राजा, जितशत्रुरिति श्रुतः। यद्गुणैग्रंथिता कीर्ति-पटी छादयते दिशः॥२॥ श्रावकप्रतिमोद्वाही, विज्ञातजिनशासनः । श्रेष्ठी वणिक्सहस्रशः कार्तिकपरमार्हतः॥३॥ पञ्चविंशतितत्त्वज्ञः, कषायवसनः शुचिः। तसिन्नेव पुरेऽतिष्ठन् , मुनिर्भागवतव्रतः॥४॥ मासं मासमुपावासी, मठवासी स संयमी । अपूज्यत भृशं पौर-महादरपुरस्सरैः॥५॥ विनैकं कार्तिकं पौरैः, पारणे पारणेनिशम् । निमच्यत मुनिर्भक्त्या, जनाः पूजितपूजकाः॥६॥ ईक्ष्यमाणश्च्छलं तस्य, चुकोप श्रेष्ठिनो मुनिः। तपो निरर्थकं चक्रे, विना शाम्यं न सिद्धिकृत् ॥ ७॥ न्यमत्रि पारणेज्येद्यु-रसौ क्षोणीभुजा खयम् । प्रायस्तपसि सर्वेषां, बहुमानःप्रगल्भते ॥८॥ स परिव्राजकोऽप्याख्यत् , क्षणं स्थित्वा विमृश्य च । कुरुते कार्तिकश्रेष्ठी, यदि मे परिवेषणम् ॥९॥ तदा त्वदालये भुजे, राजन्! राजीवलोचन!। अन्यथा पारणं न स्याद्, भूयात् प्राणविडम्बनम् ॥१०॥ श्रुत्वेति भूपतिर्दध्या-वयमाग्रहतत्परः । अपरः श्रावको व्याघ्र-तटीभून्याय आगतः ॥ ११ ॥ परं साना वणिग्मुख्य-मनुशास्मि कथञ्चन । यतस्तपखिनोऽप्यस्य, ह्याग्रहो बालकोपमः ॥ १२॥ ध्यात्वेत्योमिति सम्भाध्य, ययौ राजाऽस्य वेश्मनि । ससंभ्रममथोत्तस्थौ, सोऽपि भूपसमागमे ॥ १३ ॥ विधाय स्वोचितां राज्ञो, भक्तिमित्यूचिवानिति । इदं गेहमियं लक्ष्मी-स्त्वया समनुगृह्यताम् ॥ १४ ॥ नवमो भवः कार्तिकश्रेष्टिवृत्तान्तर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330