Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वानुभृत सद्धर्म-सामर्थ्यात्रिदशश्रियम् । भोक्ष्यते स चिरं शक्रो, धर्मात् किं न हि जायते? ॥३०॥ ततश्युत्वा सुराधीशो, भारतेऽमुत्र विश्रुते । आगामिन्याञ्चतुर्विंश-तौ जिनेन्द्रो भविष्यति ॥३१॥ सर्वानुभूतिरित्याऽऽख्यो, महाभूतिविभूषितः । सम्यक्त्वं पालितं शुद्ध -माहत्याय प्रगल्भते ॥३२॥ अस्ति खस्तिकरा जिष्णु-प्रासादा दीप्रवप्रभृत् । श्रावस्ति नाम नगरी, श्रिया पौरन्दरी पुरी ॥३३॥ जितशत्रुर्नृपस्तत्र, जयश्रीकुलमन्दिरम् । प्रियाऽस्य धारिणी नाम, शुद्धधर्मानुसारिणी ॥ ३४ ॥ शक्त्या स्कन्द इवोन्मत्त-नृपस्कन्धो महाभुजः। स्कन्दकाऽऽख्यः कुमारोऽभू-त्तयोरास्कन्दनाहितः॥३५॥ पुरन्दरयशाः पुत्री, श्रिया पौरन्दराङ्गना । दम्पत्योर्भवमाकन्द-मञ्जरी मञ्जुलखना ।। ३६ ॥ कुम्भकारपुरेशेन, दण्डकेन महीभुजा । पुत्री पुरन्दरयशाः, परिणीतोपरोधतः ॥ ३७॥ अन्येयुः पालको नाम, द्विजो दण्डकिभूभुजा। प्रेषितः प्रेमपोषाय, भूरियाभृतसम्भृतः ॥ ३८॥ प्रविवेश सभां राज्ञः, प्रतीहारप्रकाशितः । उचितप्रतिपत्त्याऽसौ, यथास्थानं व्यवस्थितः ।। ३९ ।। पप्रच्छ स्वागतं राजा, वंश्यप्रीतिविवर्द्धये । सुप्रापविपदा प्रायः, स्वागतं मङ्गलं यतः ॥ ४० ॥ सुखी दण्डकी भूपालो, यथाकालं त्रिवर्गकृत् । धर्मशास्त्रप्रमाणाध-पान्थः सद्धर्मकर्मठः ॥ ४१॥ विहस्य पालकः स्माह, त्रिवर्गाः केपि विश्रुताः ? । राजोये पटुधी! धर्मः, प्रथमस्तेषु कीर्त्यते ॥४२॥ चार्वाकः पालकः स्माह, धर्मो नास्ति नृप ! क्वचित् । यस्यासतः प्रकीर्त्यन्ते, भावा व्योमलतोपमाः॥४३॥ जितशत्रुरुवाचाऽथ, स्याद्वादी परमार्हतः । सर्वप्रमाणसंसिद्धो, धर्मस्त्रैलोक्यगोचरः ॥४४॥
नवमो मन स्कन्दमचा
For Private and Personal Use Only
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330