Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मोत्तरोऽप्यलाद्दीक्षां, गणभृत्सुव्रतान्तिके। साकं विष्णुकुमारेण, नैकाकी पुण्यवान् कचित् ३४६ आर्हतं मातृकं पद्मः, स्वपुरेऽभ्रामयद्रथम् । शनैः कार्याणि सिद्ध्यन्ति, नौत्सुक्यात्कार्यमेधते ॥३४७॥ प्रतिरथ्यं प्रतिरथ्यं, पूज्यमानं पुरीजनैः । स्वशासनमिवाकार्षी-द्धरण्यां भूपती रथम् ॥ ३४८॥ रासकाः परमार्हत्या, दीयन्ते स्म प्रतित्रिकम् । प्रतिस्थानं स्म तन्यन्ते, नाटकानि महात्मनाम् ॥ ३४९ ॥ रथभ्रमणकालं तु, श्रीमत्सुव्रतसूरयः । तत्रैव नगरे तस्थु-महापद्मोपरोधतः ॥ ३५० ॥ उन्नतिर्जिनधर्मस्य, विदधे पद्मचक्रिणा। कारयाञ्चक्रिरे विष्वग, चैत्यान्यद्रीनिवोच्चकैः ॥ ३५१ ॥ सुचिरं गुरुभिः सार्द्ध, विहृत्य नृपसंयमी । उत्पन्न केवलज्ञानः, शिवं पद्मोत्तरो ययौ ॥ ३५२ ॥ अस्य विष्णुकुमारस्य, तप्यमानस्य सत्तपः । अभूवन् लब्धयः सर्वा, याः श्रुता नान्यतीर्थिभिः ॥३५३॥ पक्षिराज इवोत्तुङ्गे, सुमेरौ विजहार सः । कामरूपधरो लब्धे-विद्यासिद्ध इवाऽवनौ ।। ३५४ ।। विविधाऽभिग्रहग्राही, निगृहीतमनोभवः । अनुज्ञाप्य गणाधीश - मेकाकी विहृतः क्षितौ ।। ३५५ ।। अन्यदा सुव्रताचार्या वर्षाकल्पविधित्सया। साधुशैक्षसमाकीर्णा, हस्तिनापुरमाययुः ।। ३५६ ॥ विदित्वा सुव्रताचार्याऽऽगमनं नमुचिः स्मरन् । प्राग्वैरं प्रतिचिकीर्षु- यजिज्ञपदिलापतिः ॥३५॥ प्रतिपन्नो वरः प्राच्यः, स च मह्यं प्रदीयताम् । न्यासापहारिणः सन्तो, न भवन्ति बहुश्रुताः ॥३५८॥ याचखेति नृपेणोक्तोऽब्रवीन्नमुचिमन्त्रिराट् । यावत्क्रतुं विधास्यामि, तावद्देवखिलामिलाम् ॥ ३५९ ॥ तथेति प्रतिपेदानः, सत्यसन्धो रसापतिः । न्यस्तवान् स्थापनाचार्य-मिव राज्ये महत्तमम् ॥ ३६० ॥ नवमो या भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330