Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BXaxkakakoXXXXXX
परं जीवाकुलः कालः, प्रयातुं तन्त्र युज्यते । अयं मिथ्यात्ववान् मन्त्री, विचारयत सम्प्रति ॥ ३७५ ॥ अथैषः सूरिरित्यूचे, पष्ठिवर्षशतीं तपः । तेपे विष्णुकुमारर्षि-र्भूत्वा चाखिललब्धिमान् ॥ ३७६ ॥ साम्प्रतं मन्दरगिरी, सोऽस्ति वर्षावधिस्थितिः । अग्रजश्चक्रिणोऽमुष्य, तद्वाक्यादेष शान्तिमान् ॥३७७॥ यस्तपोलब्धिभृद्भिक्षु-स्तमानेतुं प्रयातु सः । सङ्घकार्येषु लब्धीना-मुपयोगो हि लञ्धये ॥३७८॥ तत्रैको मुनिरप्यूचे, सहसाऽहं विहायसा। तत्र गन्तुं समर्थोऽस्मि, नाऽऽगन्तुं तपसोऽल्पतः॥३७९॥ अथोचुः सुव्रताचार्या, विष्णुरेव महामुनिः। त्वां समानेष्यते नूनं, तस्य शक्तिः प्रथीयसी ॥३८०॥ अथासी सुव्रताचार्या-नत्वा ताक्ष्य इवाम्बरे । उत्पत्य मन्दरक्षोणी-धरेऽगाच्चित्तवल्लघु ॥३८१॥ विष्णुसाधुरमुं दृष्ट्वा, चिन्तयामासिवानिदम् । प्रावृवाले कथं साधो-विहारो भवति क्षितौ ॥३८२॥ परं संघस्य सम्भाव्यं, कार्य किश्चन नाऽन्यथा । अयं महाव्रतधरः, परिपालितसत्तपः ।। ३८३ ।। इति ध्यानपरं विष्णु-मुनिं मुनिरवन्दत । तं निजागमने हेतुं, जगाद क्रोधबन्धुरम् ॥ ३८४ ॥ क्षणाद्विष्णुरमुं साधु, गृहीत्वा गमनं स्यात् । हस्तिनापुरमायासी-वन्दे सुव्रतक्रमौ ॥ ३८५ ॥ विष्णुर्नमुचिमभ्यागा-दथ साधुपरीवृतः । ववन्दिरे नृपो विष्णुं, विना नमुचिमन्त्रिणम् ॥३८६॥ विष्णुःप्रशमिनाम्मान्यः, सशान्तमिदमत्रवीत् । आप्रावृषमिहैवास-न्मुनयः सन्तु पत्तने ॥३८७॥ अयं वर्षतुरत्यन्तं, बहुजीवसमाकुलः । कथमेते महासत्त्वा, विहरन्ते दयाभृतः ॥३८८ ॥ अमीभिर्भिक्षुभिर्भिक्षा-वृत्तिभिस्तव पत्तने । वसद्भिः का क्षितिर्नाम, प्रत्युताऽशिवरक्षणम् ॥ ३८९ ॥
नवमो भवर भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330