Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
अनुज्ञातः प्रगे सूरो-दयनाथेन राजमः । जयचन्द्रामुपायंस्त, रोहिणीमिव चन्द्रमाः॥१४५॥ जयचन्द्राविवाह तं, श्रुत्वा मातुलनन्दनौ । महाविद्यामदान्धौ तौ, गङ्गाधर-महीधरौ ॥ १४६ ॥ मुहुश्रुकुपतुस्तूर्ण - मलङ्कर्मीणविक्रमौ । पद्मं सर्वाभिसारेण, योद्धुकामावुपाययौ ॥ १४७॥ महापद्मस्ततः क्रुद्धो, विद्याधरपरिवृतः । नगरानिरगादेष, विक्रमी रणरङ्गवान् ॥१४८॥ कांचन मारयामास, त्रासयामास कांश्चन । अयोधयदरीनेष, एकोऽपि बहुरूपवान् ॥ १४९ ॥ तौ च विद्याधरौ सैन्य-भङ्गमालोक्य विक्रमौ । हन्त श्रेयस्कर लोके, समये हि पलायनम् ॥१५॥ इतश्चाविरभूद्यक्ष-सहस्रेण विकस्वरम् । भास्करबिम्बवद्भाव-चक्रमायुधवेश्मनि ॥१५१॥ शस्त्रागारिक एत्याऽऽशु, चक्रोत्पत्तिं महीभुजः। अथ विज्ञपयामास, जयवल्लीमिवोदिताम् ।।१५२॥ ततस्तत्र समागत्य, चक्ररत्नस्य भाखतः। काश्मीरसलिलैः स्वात्रं, जिनेन्द्रस्येव स व्यधात् ॥ १५३॥ पृष्टेऽथ स्थासकांश्चक्री, स्वयं मृगमदैय॑धात् । चक्षुर्दोषापहाराय, भारपट्ट इवोच्चकैः ॥ १५४॥ सौवर्णैस्तण्डुलैर्मेरु-पर्वतांशैरिवाऽऽगतैः । पुरोष्टाशाजयायेव, स लिलेखाऽष्टमङ्गलीम् ।। १५५ ॥ पुष्पैः सुगन्धिभिर्वास-र्वासोभिश्च तदर्चयत् । कल्याणीभक्तयोऽन्येऽपि, जनाः पूजितपूजकाः॥१५६॥ अशोकतरुवत्तीर्थ-करवञ्चक्रभृत्ततः । त्रिश्च प्रदक्षिणीचक्रे, चक्रं तुष्टाव चोचकैः ॥ १५७ ॥ तत्रैव विहिताऽऽवासो,-ऽष्टाह्निकां तस्य निर्ममौ । मङ्गलस्नानहेतुश्च, स्नानागारमगादसौ ॥ १५८ ॥ तं मुक्तहारनेपथ्यं, धृतस्त्रानीयवाससम् । तलैः सहस्रपाकाद्यै-रभ्यानञ्जुश्च मईकाः ॥ १५९ ॥
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330